अथ द्वितीयः सर्गः स सागरमनाधृष्यमतिक्रम्य महाबलः। त्रिकूटस्य तटे लङ्कां स्थितः स्वस्थो ददर्श ह ॥१॥ ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् । अभिवृष्टस्ततस्तत्र बभौ पुष्पमयो हरिः॥२॥ योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः। अनिःश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति ॥३॥ शतान्यहं योजनानां क्रमेयं सुबहून्यपि । किं पुनः सागरस्यान्तं सङ्ख्यातं शतयोजनम् ॥४॥ स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः। जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिम् ॥५॥ शाद्वलानि च नीलानि गन्धवन्ति वनानि च । मधुमन्ति च मध्येन जगाम नगवन्ति च ॥६॥ शैलांश्च तरुसञ्छन्नान् वनराजीश्च पुष्पिताः। अभिचक्राम तेजस्वी हनूमान् प्लवगर्षभः॥७॥ स तस्मिन्नचले तिष्ठन् वनान्युपवनानि च । स नगाग्रे स्थितां लङ्कां ददर्श पवनात्मजः॥८॥ सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् । प्रियालान् मुचुलिन्दांश्च कुटजान् केतकानपि ॥९॥ प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा । असनान् कोविदारांश्च करवीरांश्च पुष्पितान् ॥१०॥ पुष्पभारनिबद्धांश्च तथा मुकुलितानपि । पादपान् विहगाकीर्णान् पवनाधूतमस्तकान् ॥११॥ हंसकारण्डवाकीर्णा वापीः पद्मोत्पलावृताः। आक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान् ॥१२॥ सन्ततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः। उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः॥१३॥ समासाद्य च लक्ष्मीवाँल्लङ्कां रावणपालिताम् । परिखाभिः सपद्माभिः सोत्पलाभिरलङ्कृताम् ॥१४॥ सीतापहरणात् तेन रावणेन सुरक्षिताम् । समन्ताद् विचरद्भिश्च राक्षसैरुग्रधन्विभिः॥१५॥ काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् । गृहैश्च गिरिसङ्काशैः शारदाम्बुदसन्निभैः॥१६॥ पाण्डुराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम् । अट्टालकशताकीर्णां पताकाध्वजशोभिताम् ॥१७॥ तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविराजितैः। ददर्श हनुमान् लङ्कां देवो देवपुरीमिव ॥१८॥ गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः। ददर्श स कपिः श्रीमान् पुरीमाकाशगामिव ॥१९॥ पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा । प्लवमानामिवाकाशे ददर्श हनुमान् कपिः॥२०॥ वप्रप्राकारजघनां विपुलाम्बुवनाम्बराम् । शतघ्नीशूलकेशान्तामट्टालकावतंसकाम् ॥२१॥ मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा । द्वारमुत्तरमासाद्य चिन्तयामास वानरः॥२२॥ कैलासनिलयप्रख्यमालिखन्तमिवाम्बरम् । ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः॥२३॥ सम्पूर्णा राक्षसैर्घोरैर्नागैर्भोगवतीमिव । अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ॥२४॥ दंष्ट्राभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः। रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव ॥२५॥ तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः। रावणं च रिपुं घोरं चिन्तयामास वानरः॥२६॥ आगत्यापीह हरयो भविष्यन्ति निरर्थकाः। नहि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि ॥२७॥ इमां त्वविषमां लङ्कां दुर्गां रावणपालिताम् । प्राप्यापि सुमहाबाहुः किं करिष्यति राघवः॥२८॥ अवकाशो न साम्नस्तु राक्षसेष्वभिगम्यते । न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥२९॥ चतुर्णामेव हि गतिर्वानराणां तरस्विनाम् । वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः॥३०॥ यावज्जानामि वैदेहीं यदि जीवति वा न वा । तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥३१॥ ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः। गिरेः शृङ्गे स्थितस्तस्मिन् रामस्याभ्युदयं ततः॥३२॥ अनेन रूपेण मया न शक्या रक्षसां पुरी । प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः॥३३॥ महौजसो महावीर्या बलवन्तश्च राक्षसाः। वञ्चनीया मया सर्वे जानकीं परिमार्गता ॥३४॥ लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्कापुरी मया । प्राप्तकालं प्रवेष्टुं मे कृत्यं साधयितुं महत् ॥३५॥ तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः। हनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः॥३६॥ केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् । अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥३७॥ न विनश्येत् कथं कार्यं रामस्य विदितात्मनः। एकामेकस्तु पश्येयं रहिते जनकात्मजाम् ॥३८॥ भूताश्चार्था विनश्यन्ति देशकालविरोधिताः। विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥३९॥ अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते । घातयन्तीह कार्याणि दूताः पण्डितमानिनः॥४०॥ न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् । लङ्घनं च समुद्रस्य कथं नु न भवेद् वृथा ॥४१॥ मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः। भवेद् व्यर्थमिदं कार्यं रावणानर्थमिच्छतः॥४२॥ नहि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः। अपि राक्षसरूपेण किमुतान्येन केनचित् ॥४३॥ वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम । नह्यत्राविदितं किञ्चिद् रक्षसां भीमकर्मणाम् ॥४४॥ इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः। विनाशमुपयास्यामि भर्तुरर्थश्च हास्यति ॥४५॥ तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः। लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये ॥४६॥ रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् । प्रविश्य भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् ॥४७॥ इति निश्चित्य हनुमान् सूर्यस्यास्तमयं कपिः। आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः॥४८॥ सूर्ये चास्तं गते रात्रौ देहं सङ्क्षिप्य मारुतिः। वृषदंशकमात्रोऽथ बभूवाद्भुतदर्शनः॥४९॥ प्रदोषकाले हनुमांस्तूर्णमुत्पत्य वीर्यवान् । प्रविवेश पुरीं रम्यां प्रविभक्तमहापथाम् ॥५०॥ प्रासादमालाविततां स्तम्भैः काञ्चनसन्निभैः। शातकुम्भनिभैर्जालैर्गन्धर्वनगरोपमाम् ॥५१॥ सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम् । तलैः स्फटिकसङ्कीर्णैः कार्तस्वरविभूषितैः॥५२॥ वैदूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः। तैस्तैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥५३॥ काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् । लङ्कामुद्योतयामासुः सर्वतः समलङ्कृताम् ॥५४॥ अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः। आसीद् विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः॥५५॥ स पाण्डुराविद्धविमानमालिनीं महार्हजाम्बूनदजालतोरणाम् । यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः सुपालिताम् ॥५६॥ चन्द्रोऽपि साचिव्यमिवास्य कुर्वं- स्तारागणैर्मध्यगतो विराजन् । ज्योत्स्नावितानेन वितत्य लोका- नुत्तिष्ठतेऽनेकसहस्ररश्मिः॥५७॥ शङ्खप्रभं क्षीरमृणालवर्ण मुद्गच्छमानं व्यवभासमानम् । ददर्श चन्द्रं स कपिप्रवीरः पोप्लूयमानं सरसीव हंसम् ॥५८॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वितीयः सर्गः