अथ षष्ठः सर्गः स निकामं विमानेषु विचरन्कामरूपधृक् । विचचार कपिर्लङ्कां लाघवेन समन्वितः॥१॥ आससाद च लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् । प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ॥२॥ रक्षितं राक्षसैर्भीमैः सिंहैरिव महद्वनम् । समीक्षमाणो भवनं चकाशे कपिकुञ्जरः॥३॥ रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषणैः। विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् ॥४॥ गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः। उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः॥५॥ सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतीः। घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः॥६॥ बहुरत्नसमाकीर्णं परार्ध्यासनभूषितम् । महारथसमावापं महारथमहासनम् ॥७॥ दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः। विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः॥८॥ विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् । मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः॥९॥ मुदितप्रमदा रत्नं राक्षसेन्द्रनिवेशनम् । वराभरणसंह्रादै समुद्रस्वननिःस्वनम् ॥१०॥ तद्राजगुणसम्पन्नं मुख्यैश्च वरचन्दनैः। महाजनसमाकीर्णं सिंहैरिव महद्वनम् ॥११॥ भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम् । नित्यार्चितं पर्वसुतं पूजितं राक्षसैः सदा ॥१२॥ समुद्रमिव गम्भीरं समुद्रसमनिःस्वनम् । महात्मनो महद्वेश्म महारत्नपरिच्छदम् ॥१३॥ महारत्नसमाकीर्णं ददर्श स महाकपिः। विराजमानं वपुषा गजाश्वरथसङ्कुलम् ॥१४॥ लङ्काभरणमित्येव सोऽमन्यत महाकपिः। चचार हनुमांस्तत्र रावणस्य समीपतः॥१५॥ गृहाद्गृहं राक्षसानामुद्यानानि च सर्वशः। वीक्षमाणोऽप्यसन्त्रस्तः प्रासादांश्च चचार सः॥१६॥ अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् । ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥१७॥ अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् । विभीषणस्य च तथा पुप्लुवे स महाकपिः॥१८॥ महोदरस्य च तथा विरूपाक्षस्य चैव हि । विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च ॥१९॥ वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः। शुकस्य च महावेगः सारणस्य च धीमतः॥२०॥ तथा चेन्द्रजितो वेश्म जगाम हरियूथपः। जम्बुमालेः सुमालेश्च जगाम हरिसतमः॥२१॥ रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च । वज्रकायस्य च तथा पुप्लुवे स महाकपिः॥२२॥ धूम्राक्षस्याथ सम्पातेर्भवनं मारुतात्मजः। विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ॥२३॥ शुकनाभस्य चक्रस्य शठस्य कपटस्य च । ह्रस्वकर्णस्य दंष्ट्रस्य लोमशस्य च रक्षसः॥२४॥ युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य सादिनः। विद्युज्जिह्वद्विजिह्वानां तथा हस्तिमुखस्य च ॥२५॥ करालस्य पिशाचस्य शोणिताक्षस्य चैव हि । प्लवमानः क्रमेणैव हनूमान्मारुतात्मजः॥२६॥ तेषु तेषु महार्हेषु भवनेषु महायशाः। तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः॥२७॥ सर्वेषां समतिक्रम्य भवनानि समन्ततः। आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् ॥२८॥ रावणस्योपशायिन्यो ददर्श हरिसत्तमः। विचरन्हरिशार्दूलो राक्षसीर्विकृतेक्षणाः॥२९॥ शूलमुद्गरहस्तांश्च शक्तितोमरधारिणः। ददर्श विविधान्गुल्मांस्तस्य रक्षःपतेर्गृहे ॥३०॥ राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान् । रक्ताञ्श्वेतान्सितांश्चापि हरींश्चापि महाजवान् ॥३१॥ कुलीनान्रूपसम्पन्नान्गजान्परगजारुजान् । शिक्षितान् गजशिक्षायामैरावतसमान्युधि ॥३२॥ निहन्तॄन्परसैन्यानां गृहे तस्मिन्ददर्श सः। क्षरतश्च यथा मेघान्स्रवतश्च यथा गिरीन् ॥३३॥ मेघस्तनितनिर्घोषान्दुर्धर्षान्समरे परैः। सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः॥३४॥ हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः। ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥३५॥ शिबिका विविधाकाराः स कपिर्मारुतात्मजः। लतागृहाणि चित्राणि चित्रशालागृहाणि च ॥३६॥ क्रीडागृहाणि चान्यानि दारुपर्वतकानि च । कामस्य गृहकं रम्यं दिवागृहकमेव च ॥३७॥ ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने । स मन्दरसमप्रख्यं मयूरस्थानसङ्कुलम् ॥३८॥ ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् । अनन्तरत्ननिचयं निधिजालं समन्ततः। धीरनिष्ठितकर्माङ्गं गृहं भूतपतेरिव ॥३९॥ अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च । विरराज च तद्वेश्म रश्मिवानिव रश्मिभिः॥४०॥ जाम्बूनदमयान्येव शयनान्यासनानि च । भाजनानि च शुभ्राणि ददर्श हरियूथपः॥४१॥ मध्वासवकृतक्लेदं मणिभाजनसङ्कुलम् । मनोरममसम्बाधं कुबेरभवनं यथा ॥४२॥ नूपुराणां च घोषेण काञ्चीनां निःस्वनेन च । मृदङ्गतलनिर्घोषैर्घोषवद्भिर्विनादितम् ॥४३॥ प्रासादसङ्घातयुतं स्त्रीरत्नशतसङ्कुलम् । सुव्यूढकक्ष्यं हनुमान्प्रविवेश महागृहम् ॥४४॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षष्ठः सर्गः