अथ अष्टमः सर्गः स तस्य मध्ये भवनस्य संस्थितो महद्विमानं मणिरत्नचित्रितम् । प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श धीमान् पवनात्मजः कपिः॥१॥ तदप्रमेयप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा । दिवं गते वायुपथे प्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्म तत् ॥२॥ न तत्र किञ्चिन्न कृतं प्रयत्नतो न तत्र किञ्चिन्न महार्हरत्नवत् । न ते विशेषा नियताः सुरेष्वपि न तत्र किञ्चिन्न महाविशेषवत् ॥३॥ तपः समाधानपराक्रमार्जितं मनः समाधानविचारचारिणम् । अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषनिर्मितम् ॥४॥ मनः समाधाय तु शीघ्रगामिनं दुरासदं मारुततुल्यगामिनम् । महात्मनां पुण्यकृतां महर्द्धिनां यशस्विनामग्र्यमुदामिवालयम् ॥५॥ विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम् । मनोऽभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा ॥६॥ वहन्ति यत्कुण्डलशोभितानना महाशना व्योमचरानिशाचराः। विवृत्तविध्वस्तविशाललोचना महाजवा भूतगणाः सहस्रशः॥७॥ वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि चारुदर्शनम् । स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः॥८॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टमः सर्गः