अथ दशमः सर्गः तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् । अवेक्षमाणो हनुमान् ददर्श शयनासनम् ॥१॥ दान्तकाञ्चनचित्राङ्गैर्वैदूर्यैश्च वरासनैः। महार्हास्तरणोपेतैरुपपन्नं महाधनैः॥२॥ तस्य चैकतमे देशे दिव्यमाल्योपशोभितम् । ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम् ॥३॥ जातरूपपरिक्षिप्तं चित्रभानोः समप्रभम् । अशोकमालाविततं ददर्श परमासनम् ॥४॥ वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः। गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ॥५॥ परमास्तरणास्तीर्णमाविकाजिनसंवृतम् । दामभिर्वरमाल्यानां समन्तादुपशोभितम् ॥६॥ तस्मिञ्जीमूतसङ्काशं प्रदीप्तोज्ज्वलकुण्डलम् । लोहिताक्षं महाबाहुं महारजतवाससं ॥७॥ लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना । सन्ध्यारक्तमिवाकाशे तोयदं सतडिद्गुणम् ॥८॥ वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम् । सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् ॥९॥ क्रीडित्वोपरतं रात्रौ वराभरणभूषितम् । प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् ॥१०॥ पीत्वाप्युपरतं चापि ददर्श स महाकपिः। भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम् ॥११॥ निःश्वसन्तं यथा नागं रावणं वानरोत्तमः। आसाद्य परमोद्विग्नः सोपासर्पत्सुभीतवत् ॥१२॥ अथारोहणमासाद्य वेदिकान्तरमाश्रितः। क्षीवं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः॥१३॥ शुशुभे राक्षसेन्द्रस्य स्वपतः शयनं शुभम् । गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत् ॥१४॥ काञ्चनाङ्गदसंनद्धौ ददर्श स महात्मनः। विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ ॥१५॥ ऐरावतविषाणाग्रैरापीडिनकृतव्रणौ । वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ ॥१६॥ पीनौ समसुजातांसौ सङ्गतौ बलसंयुतौ । सुलक्षण नखाङ्गुष्ठौ स्वङ्गुलीयकलक्षितौ ॥१७॥ संहतौ परिघाकारौ वृत्तौ करिकरोपमौ । विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ ॥१८॥ शशक्षतजकल्पेन सुशीतेन सुगन्धिना । चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलङ्कृतौ ॥१९॥ उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ । यक्षपन्नगगन्धर्वदेवदानवराविणौ ॥२०॥ ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ । मन्दरस्यान्तरे सुप्तौ महाही रुषिताविव ॥२१॥ ताभ्यां स परिपूर्णाभ्यामुभाभ्यां राक्षसेश्वरः। शुशुभेऽचलसङ्काशः शृङ्गाभ्यामिव मन्दरः॥२२॥ चूतपुंनागसुरभिर्बकुलोत्तमसंयुतः। मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः॥२३॥ तस्य राक्षसराजस्य निश्चक्राम महामुखात् । शयानस्य विनिःश्वासः पूरयन्निव तद्गृहम् ॥२४॥ मुक्तामणिविचित्रेण काञ्चनेन विराजिता । मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् ॥२५॥ रक्तचन्दनदिग्धेन तथा हारेण शोभिना । पीनायतविशालेन वक्षसाभिविराजिता ॥२६॥ पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम् । महार्हेण सुसंवीतं पीतेनोत्तरवाससा ॥२७॥ माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत् । गाङ्गे महति तोयान्ते प्रसुप्तमिव कुञ्जरम् ॥२८॥ चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानं चतुर्दिशम् । प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव ॥२९॥ पादमूलगताश्चापि ददर्श सुमहात्मनः। पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे ॥३०॥ शशिप्रकाशवदना वरकुण्डलभूषणाः। अम्लानमाल्याभरणा ददर्श हरियूथपः॥३१॥ नृत्यवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः। वराभरणधारिण्यो निषण्णा ददृशे कपिः॥३२॥ वज्रवैदूर्यगर्भाणि श्रवणान्तेषु योषिताम् । ददर्श तापनीयानि कुण्डलान्यङ्गदानि च ॥३३॥ तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः। विरराज विमानं तन्नभस्तारागणैरिव ॥३४॥ मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः। तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः॥३५॥ अङ्गहारैस्तथैवान्या कोमलैर्नृत्यशालिनी । विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवरर्णिनी ॥३६॥ काचिद्वीणां परिष्वज्य प्रसुप्ता सम्प्रकाशते । महानदीप्रकीर्णेव नलिनी पोतमाश्रिता ॥३७॥ अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा । प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ॥३८॥ पटहं चारुसर्वाङ्गी न्यस्य शेते शुभस्तनी । चिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी ॥३९॥ काचिद् वीणां परिष्वज्य सुप्ता कमललोचना । वरं प्रियतमं गृह्य सकामेव हि कामिनि ॥४०॥ विपञ्चीं परिगृह्यान्या नियता नृत्यशालिनी । निद्रावशमनुप्राप्ता सहकान्तेव भामिनी ॥४१॥ अन्या कनकसङ्काशैर्मृदुपीनैर्मनोरमैः। मृदङ्गं परिविद्ध्याङ्गैः प्रसुप्ता मत्तलोचना ॥४२॥ भुजपाशान्तरस्थेन कक्षगेन कृशोदरी । पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा ॥४३॥ डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा । प्रसुप्ता तरुणं वत्समुपगुह्येव भामिनी ॥४४॥ काचिदाडम्बरं नारी भुजसम्भोगपीडितम् । कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता ॥४५॥ कलशीमपविद्ध्यान्या प्रसुप्ता भाति भामिनी । वसन्ते पुष्पशबला मालेव परिमार्जिता ॥४६॥ पाणिभ्यां च कुचौ काचित्सुवर्णकलशोपमौ । उपगूह्याबला सुप्ता निद्राबलपराजिता ॥४७॥ अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना । अन्यामालिङ्ग्य सुश्रोणीं प्रसुप्ता मदविह्वला ॥४८॥ आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः। निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव ॥४९॥ तासामेकान्तविन्यस्ते शयानां शयने शुभे । ददर्श रूपसम्पन्नामथ तां स कपिः स्त्रियम् ॥५०॥ मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम् । विभूषयन्तीमिव च स्वश्रिया भवनोत्तमम् ॥५१॥ गौरीं कनकवर्णाभामिष्टामन्तःपुरेश्वरीम् । कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् ॥५२॥ स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः। तर्कयामास सीतेति रूपयौवनसम्पदा । हर्षेण महता युक्तो ननन्द हरियूथपः॥५३॥ आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम । स्तम्भानरोहन्निपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम् ॥५४॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे दशमः सर्गः