अथ एकादशः सर्गः अवधूय च तां बुद्धिं बभूवावस्थितस्तदा । जगाम चापरां चिन्तां सीतां प्रति महाकपिः॥१॥ न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी । न भोक्तुं नाप्यलङ्कर्तुं न पानमुपसेवितुम् ॥२॥ नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् । न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि ॥३॥ अन्येयमिति निश्चित्य भूयस्तत्र चचार सः। पानभूमौ हरिश्रेष्ठः सीतासन्दर्शर्नोत्सुकः॥४॥ क्रीडितेनापराः क्लान्ता गीतेन च तथापराः। नृत्येन चापराः क्लान्ताः पानविप्रहतास्तथा ॥५॥ मुरजेषु मृदङ्गेषु चेलिकासु च संस्थिताः। तथाऽऽस्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः॥६॥ अङ्गनानां सहस्रेण भूषितेन विभूषणैः। रूपसंलापशीलेन युक्तगीतार्थभाषिणा ॥७॥ देशकालाभियुक्तेन युक्तवाक्याभिधायिना । रताधिकेन संयुक्तां ददर्श हरियूथपः॥८॥ अन्यत्रापि वरस्त्रीणां रुपसंलापशायिनाम् । सहस्रं युवतीनां तु प्रसुप्तं स ददर्श ह ॥९॥ देशकालाभियुक्तं तु युक्तवाक्याभिधायि तत् । रताविरतसंसुप्तं ददर्श हरियुथपः॥१०॥ तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः। गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः॥११॥ स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम् । करेणुभिर्यथारण्ये परिकीर्णो महाद्विपः॥१२॥ सर्वकामैरुपेतां च पानभूमिं महात्मनः। ददर्श कपिशार्दूलस्तस्य रक्षःपतेर्गृहे ॥१३॥ मृगाणां महिषाणां च वराहाणां च भागशः। तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः॥१४॥ रौक्मेषु च विशलेषु भाजनेष्वप्यभक्षितान् । ददर्श कपिशार्दूलो मयूरान्कुक्कुटांस्तथा ॥१५॥ वराहवाध्रीणसकान्दधिसौवर्चलायुतान् । शल्यान्मृगमयूरांश्च हनूमानन्ववैक्षत ॥१६॥ कृकलान् विविधांश्छागाञ्छशकानर्धभक्षितान् । महिषानेकशल्यांश्च मेषांश्च कृतनिष्ठितान् ॥१७॥ लेह्यानुच्चावचान् पेयान् भोज्यान्युञ्चावचानि च । तथाम्ललवणोत्तंसैर्विविधै रागखाण्डवैः॥१८॥ महानूपुरकेयूरैरपविद्धैर्महाधनैः। पानभाजनविक्षिप्तैः फलैश्च विविधैरपि ॥१९॥ कृतपुष्पोपहारा भूरधिकां पुष्यति श्रियम् । तत्र तत्र च विन्यस्तैः सुश्लिष्टशयनासनैः॥२०॥ पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते । बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः॥२१॥ मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् । दिव्याः प्रसन्नाविविधाः सुराः कृतसुरा अपि ॥२२॥ शर्करासवमाध्वीकाः पुष्पासवफलासवाः। वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक्पृथक् ॥२३॥ सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः। हिरण्मयैश्च कलशैर्भाजनैः स्फाटिकैरपि ॥२४॥ जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता । राजतेषु च कुम्भेषु जाम्बूनदमयेषु च ॥२५॥ पानश्रेष्ठां तथा भूमिं कपिस्तत्र ददर्श सः। सोऽपश्यच्छातकुम्भानि सीधोर्मणिमयानि च ॥२६॥ तानि तानि च पूर्णानि भाजनानि महाकपिः। क्वचिदर्धावशेषाणि क्वचित्पीतान्यशेषतः॥२७॥ क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह । क्वचिद्भक्ष्यांश्च विविधान्क्वचित्पानानि भागशः॥२८॥ क्वचिदर्धावशेषाणि पश्यन्वै विचचार ह । शयनान्यत्र नारीणां शून्यानि बहुधा पुनः। परस्परं समाश्लिष्य काश्चित्सुप्तावराङ्गनाः॥२९॥ काचिच्च वस्त्रमन्यस्या अपहृत्योपगुह्य च । उपगम्याबला सुप्ता निद्राबलपराजिता ॥३०॥ तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम् । नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम् ॥३१॥ चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च । विविधस्य च माल्यस्य पुष्पस्य विविधस्य च ॥३२॥ बहुधा मारुतस्तस्य गन्धं विविधमुद्वहन् । स्नानानां चन्दनानां च धूपानां चैव मूर्छितः॥३३॥ प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा । श्यामावदातास्तत्रान्याः काश्चित्कृष्णा वराङ्गनाः॥३४॥ काश्चित्काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये । तासां निद्रावशत्वाच्च मदनेन विमूर्छितम् ॥३५॥ पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि । एवं सर्वमशेषेण रावणान्तःपुरं कपिः। ददर्श स महातेजा न ददर्श च जानकीम् ॥३६॥ निरीक्षमाणश्च ततस्ताः स्त्रियः स महाकपिः। जगाम महतीं शङ्कां धर्मसाध्वसशङ्कितः॥३७॥ परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् । इदं खलु ममात्यर्थं धर्मलोपं करिष्यति ॥३८॥ न हि मे परदाराणां दृष्टिर्विषयवर्तिनी । अयं चात्र मया दृष्टः परदारपरिग्रहः॥३९॥ तस्य प्रादुरभूच्चिन्तापुनरन्या मनस्विनः। निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी ॥४०॥ कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः। न तु मे मनसा किञ्चिद्वैकृत्यमुपपद्यते ॥४१॥ मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने । शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥४२॥ नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् । स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे ॥४३॥ यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्गते । न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम् ॥४४॥ तदिदं मार्गितं तावच्छुद्धेन मनसा मया । रावणान्तःपुरं सर्वं दृश्यते न च जानकी ॥४५॥ देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् । अवेक्षमाणो हनुमान्नैवापश्यत जानकीम् ॥४६॥ तामपश्यन्कपिस्तत्र पश्यंश्चान्या वरस्त्रियः। अपक्रम्य तदा वीरः प्रस्थातुमुपचक्रमे ॥४७॥ स भूयः सर्वतः श्रीमान् मारुतिर्यत्नमाश्रितः। आपानभूमिमुत्सृज्य तां विचेतुं प्रचक्रमे ॥४८॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकादशः सर्गः