अथ द्वादशः सर्गः स तस्य मध्ये भवनस्य संस्थितो लतागृहांश्चित्रगृहान्निशागृहान् । जगाम सीतां प्रतिदर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ॥१॥ स चिन्तयामास ततो महाकपिः प्रियामपश्यन्रघुनन्दनस्य ताम् । ध्रुवं न सीता ध्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली ॥२॥ सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षणतत्परा सती । अनेन नूनं प्रति दुष्टकर्मणा हता भवेदार्यपथे परे स्थिता ॥३॥ विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः। समीक्ष्य ता राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा ॥४॥ सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम् । न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः॥५॥ दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः। न सीता दृश्यते साध्वी वृथा जातो मम श्रमः॥६॥ किं नु मां वानराः सर्वे गतं वक्ष्यन्ति सङ्गताः। गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः॥७॥ अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् । ध्रुवं प्रायमुपासिष्ये कालस्य व्यतिवर्तने ॥८॥ किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः। गतं पारं समुद्रस्य वानराश्च समागताः॥९॥ अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् । अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः॥१०॥ करोति सफलं जन्तोः कर्म यच्च करोति सः। तस्मादनिर्वेदकरं यत्नं चेष्टेऽहमुत्तमम् ॥११॥ भूयस्तत्र विचेष्यामि न यत्र विचयः कृतः। अदृष्टांश्च विचेष्यामि देशान्रावणपालितान् ॥१२॥ आपानशाला विचितास्तथा पुष्पगृहाणि च । चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च ॥१३॥ निष्कुटान्तररथ्याश्च विमानानि च सर्वशः। इति सञ्चिन्त्य भूयोऽपि विचेतुमुपचक्रमे ॥१४॥ भूमीगृहांश्चैत्यगृहान्गृहातिगृहकानपि । उत्पतन्निपतंश्चापि तिष्ठन्गच्छन्पुनः क्वचित् ॥१५॥ अपवृण्वंश्च द्वाराणि कपाटान्यवघट्टयन् । प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्निव ॥१६॥ सर्वमप्यवकाशं स विचचार महाकपिः। चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते । रावणान्तःपुरे तस्मिन्यं कपिर्न जगाम सः॥१७॥ प्राकरान्तरवीथ्यश्च वेदिकश्चैत्यसंश्रयाः। श्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम् ॥१८॥ राक्षस्यो विविधाकारा विरूपा विकृतास्तथा । दृष्टा हनुमता तत्र न तु सा जनकात्मजा ॥१९॥ रूपेणाप्रतिमा लोके परा विद्याधरस्त्रियः। दृष्टा हनुमता तत्र न तु राघवनन्दिनी ॥२०॥ नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः। दृष्टा हनुमता तत्र न तु सा जनकात्मजा ॥२१॥ प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः। दृष्टा हनुमता तत्र न सा जनकनन्दिनी ॥२२॥ सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः। विषसाद महाबाहुर्हनूमान्मारुतात्मजः॥२३॥ उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च । व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागतः॥२४॥ अवतीर्य विमानाच्च हनूमान्मारुतात्मजः। चिन्तामुपजगामाथ शोकोपहतचेतनः॥२५॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वादशः सर्गः