अथ त्रयोदशः सर्गः विमानात्तु स सङ्क्रम्य प्राकारं हरियूथपः। हनूमान्वेगवानासीद्यथा विद्युद् घनान्तरे ॥१॥ सम्परिक्रम्य हनुमान्रावणस्य निवेशनान् । अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः॥२॥ भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम् । न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम् ॥३॥ पल्वलानि तटाकानि सरांसि सरितस्तथा । नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः॥४॥ लोलिता वसुधा सर्वा न च पश्यामि जानकीम् । इह सम्पातिना सीता रावणस्य निवेशने ॥५॥ आख्याता गृध्रराजेन न च सा दृश्यते न किम् । किं नु सीताथ वैदेही मैथिली जनकात्मजा । उपतिष्ठेत विवशा रावणेन हृता बलात् ॥६॥ क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः। बिभ्यतो रामबाणानामन्तरा पतिता भवेत् ॥७॥ अथवा ह्रियमाणायाः पथि सिद्धनिषेविते । मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ॥८॥ रावणस्योरुवेगेन भुजाभ्यां पीडितेन च । तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ॥९॥ उपर्युपरि सा नूनं सागरं क्रमतस्तदा । विचेष्टमाना पतिता समुद्रे जनकात्मजा ॥१०॥ आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः। अबन्धुर्भक्षिता सीता रावणेन तपस्विनी ॥११॥ अथ वा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा । अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति ॥१२॥ सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् । रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता ॥१३॥ हा राम लक्ष्मणेत्येवं हायोध्ये चेति मैथिली । विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ॥१४॥ अथवा निहिता मन्ये रावणस्य निवेशने । भृशं लालप्यते बाला पञ्जरस्थेव सारिका ॥१५॥ जनकस्य कुले जाता रामपत्नी सुमध्यमा । कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ॥१६॥ विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा । रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ॥१७॥ निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने । कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे ॥१८॥ अस्मिन्नेवङ्गते कार्ये प्राप्तकालं क्षमं च किम् । भवेदिति मतिं भूयो हनुमान्प्रविचारयन् ॥१९॥ यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः। गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ॥२०॥ ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति । प्रवेशश्चैव लङ्कायां राक्षसानां च दर्शनम् ॥२१॥ किं वा वक्ष्यति सुग्रीवो हरयो वापि सङ्गताः। किष्किन्धामनुसम्प्राप्तं तौ वा दशरथात्मजौ ॥२२॥ गत्वा तु यदि काकुत्स्थं वक्ष्यामि परुषं वचः। न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम् ॥२३॥ परुषं दारुणं तीक्ष्णं क्रूरमिन्द्रियतापनम् । सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ॥२४॥ तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसं । भृशानुरक्तमेधावी न भविष्यति लक्ष्मणः॥२५॥ विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति । भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ॥२६॥ पुत्रान् मृतान् समीक्ष्याथ न भविष्यन्ति मातरः। कौसल्या च सुमित्रा च कैकेयी च न संशयः॥२७॥ कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः। रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम् ॥२८॥ दुर्मना व्यथिता दीना निरानन्दा तपस्विनी । पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ॥२९॥ वालिजेन तु दुःखेन पीडिता शोककर्शिता । पञ्चत्वमागता राज्ञी तारापि न भविष्यति ॥३०॥ मातापित्रोर्विनाशेन सुग्रीव व्यसनेन च । कुमारोऽप्यङ्गदः तस्माद् विजहिष्यति जीवितम् ॥३१॥ भर्तृजेन तु दुःखेन अभिभूता वनौकसः। शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च ॥३२॥ सान्त्वेनानुप्रदानेन मानेन च यशस्विना । लालिताः कपिनाथेन प्राणांस्त्यक्ष्यन्ति वानराः॥३३॥ न वनेषु न शैलेषु न निरोधेषु वा पुनः। क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः॥३४॥ सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः। शैलाग्रेभ्यः पतिष्यन्ति समेषु विषमेषु च ॥३५॥ विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा । उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः॥३६॥ घोरमारोदनं मन्ये गते मयि भविष्यति । इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ॥३७॥ सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः। न हि शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना ॥३८॥ मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ । आशया तौ धरिष्येते वानराश्च तरस्विनः॥३९॥ हस्तादानो मुखादानो नियतो वृक्षमूलिकः। वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम् ॥४०॥ सागरानूपजे देशे बहुमूलफलोदके । चितिं कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् ॥४१॥ उपविष्टस्य वा सम्यग्लिङ्गिनं साधयिष्यतः। शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च ॥४२॥ इदमप्यृषिभिर्दृष्टं निर्याणमिति मे मतिः। सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम् ॥४३॥ सुजातमूला सुभगा कीर्तिमाला यशस्विनी । प्रभग्ना चिररात्राय मम सीतामपश्यतः॥४४॥ तापसो वा भविष्यामि नियतो वृक्षमूलिकः। नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम् ॥४५॥ यदि तु प्रतिगच्छामि सीतामनधिगम्य ताम् । अङ्गदः सहितः सर्वैर्वानरैर्न भविष्यति ॥४६॥ विनाशे बहवो दोषा जीवन्प्राप्नोति भद्रकम् । तस्मात्प्राणान्धरिष्यामि ध्रुवो जीवति सङ्गमः॥४७॥ एवं बहुविधं दुःखं मनसा धारयन् बहु । नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः॥४८॥ ततो विक्रममासाद्य धैर्यवान् कपिकुञ्जरः। रावणं वा वधिष्यामि दशग्रीवं महाबलम् । काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति ॥४९॥ अथवैनं समुत्क्षिप्य उपर्युपरि सागरम् । रामायोपहरिष्यामि पशुं पशुपतेरिव ॥५०॥ इति चिन्ता समापन्नः सीतामनधिगम्य ताम् । ध्यानशोकपरीतात्मा चिन्तयामास वानरः॥५१॥ यावत्सीतां न पश्यामि रामपत्नीं यशस्विनीम् । तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः॥५२॥ सम्पाति वचनाच्चापि रामं यद्यानयाम्यहम् । अपश्यन्राघवो भार्यां निर्दहेत्सर्ववानरान् ॥५३॥ इहैव नियताहारो वत्स्यामि नियतेन्द्रियः। न मत्कृते विनश्येयुः सर्वे ते नरवानराः॥५४॥ अशोकवनिका चापि महतीयं महाद्रुमा । इमामधिगमिष्यामि नहीयं विचिता मया ॥५५॥ वसून् रुद्रांस्तथाऽऽदित्यानश्विनौ मरुतोऽपि च । नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः॥५६॥ जित्वा तु राक्षसान्देवीमिक्ष्वाकुकुलनन्दिनीम् । सम्प्रदास्यामि रामाय सिद्धीमिव तपस्विने ॥५७॥ स मुहूर्तमिव ध्यात्वा चिन्ताविग्रथितेन्द्रियः। उदतिष्ठन्महाबाहुर्हनूमान्मारुतात्मजः॥५८॥ नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै । नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः॥५९॥ स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः। दिशः सर्वाः समालोक्य सोऽशोकवनिकां प्रति ॥६०॥ स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् । उत्तरं चिन्तयामास वानरो मारुतात्मजः॥६१॥ ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला । अशोकवनिका पुण्या सर्वसंस्कारसंस्कृता ॥६२॥ रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् । भगवानपि विश्वात्मा नातिक्षोभं प्रवायति ॥६३॥ सङ्क्षिप्तोऽयं मयाऽऽत्मा च रामार्थे रावणस्य च । सिद्धिं दिशन्तु मे सर्वे देवाः सर्षिगणास्त्विह ॥६४॥ ब्रह्मा स्वयम्भूर्भगवान्देवाश्चैव तपस्विनः। सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत् ॥६५॥ वरुणः पाशहस्तश्च सोमादित्यौ तथैव च । अश्विनौ च महात्मानौ मरुतः सर्व एव च ॥६६॥ सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः। दास्यन्ति मम ये चान्येऽप्यदृष्टाः पथि गोचराः॥६७॥ तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम् । द्रक्ष्ये तदार्यावदनं कदान्वहं प्रसन्नताराधिपतुल्यवर्चसम् ॥६८॥ क्षुद्रेण हीनेन नृशंसमूर्तिना सुदारुणालङ्कृतवेषधारिणा । बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत् ॥६९॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रयोदशः सर्गः