अथ चथुर्दशः सर्गः स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् । अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः॥१॥ स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः। पुष्पिताग्रान्वसन्तादौ ददर्श विविधान्द्रुमान् ॥२॥ सालानशोकान्भव्यांश्च चम्पकांश्च सुपुष्पितान् । उद्दालकान्नागवृक्षांश्चूतान्कपिमुखानपि ॥३॥ तथाऽऽम्रवणसम्पन्नाँल्लताशतसमन्वितान् । ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ॥४॥ स प्रविष्य विचित्रां तां विहगैरभिनादिताम् । राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम् ॥५॥ विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् । उदितादित्यसङ्काशां ददर्श हनुमान् बली ॥६॥ वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः। कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ॥७॥ प्रहृष्टमनुजां काले मृगपक्षिमदाकुलाम् । मत्तबर्हिणसङ्घुष्टां नानाद्विजगणायुताम् ॥८॥ मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् । सुखप्रसुप्तान्विहगान्बोधयामास वानरः॥९॥ उत्पतद्भिर्द्विजगणैः पक्षैर्वातैः समाहताः। अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः॥१०॥ पुष्पावकीर्णः शुशुभे हनुमान्मारुतात्मजः। अशोकवनिकामध्ये यथा पुष्पमयो गिरिः॥११॥ दिशः सर्वाभिधावन्तं वृक्षखण्डगतं कपिम् । दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥१२॥ वृक्षेभ्यः पतितैः पुष्पैरवकीर्णाः पृथग्विधैः। रराज वसुधा तत्र प्रमदेव विभूषिता ॥१३॥ तरस्विना ते तरवस्तरसा बहु कम्पिताः। कुसुमानि विचित्राणि ससृजुः कपिना तदा ॥१४॥ निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः। निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः॥१५॥ हनूमता वेगवता कम्पितास्ते नगोत्तमाः। पुष्पपत्रफलान्याशु मुमुचुः फलशालिनः॥१६॥ विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः। बभूवुरगमाः सर्वे मारुतेन विनिर्धुताः॥१७॥ विधूतकेशी युवतिर्यथा मृदितवर्णका । निपीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता ॥१८॥ तथा लाङ्गूलहस्तैस्तु चरणाभ्यां च मर्दिता । तथैवाशोकवनिका प्रभग्नवरपादपा ॥१९॥ महालतानां दामानि व्यधमत्तरसा कपिः। यथा प्रावृषि वेगेन मेघजालानि मारुतः॥२०॥ स तत्र मणिभूमीश्च राजतीश्च मनोरमाः। तथा काञ्चनभूमीश्च विचरन्ददृशे कपिः॥२१॥ वापीश्च विविधाकाराः पूर्णाः परमवारिणा । महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः॥२२॥ मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः। काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः॥२३॥ बुद्धपद्मोत्पलवनाश्चक्रवाकोपशोभिताः। नत्यूहरुतसङ्घुष्टा हंससारसनादिताः॥२४॥ दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः। अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः॥२५॥ लताशतैरवतताः सन्तानकुसुमावृताः। नानागुल्मावृतवनाः करवीरकृतान्तराः॥२६॥ ततोऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम् । विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ॥२७॥ शिलागृहैरवततं नानावृक्षसमावृतम् । ददर्श कपिशार्दूलो रम्यं जगति पर्वतम् ॥२८॥ ददर्श च नगात्तस्मान्नदीं निपतितां कपिः। अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥२९॥ जले निपतिताग्रैश्च पादपैरुपशोभिताम् । वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः॥३०॥ पुनरावृत्ततोयां च ददर्श स महाकपिः। प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ॥३१॥ तस्यादूरात्स पद्मिन्यो नानाद्विजगणायुताः। ददर्श कपिशार्दूलो हनुमान्मारुतात्मजः॥३२॥ कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा । मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ॥३३॥ विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् । प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा ॥३४॥ काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृताम् । ये केचित्पादपास्तत्र पुष्पोपगफलोपगाः॥३५॥ सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः। लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् ॥३६॥ काञ्चनीं शिंशपामेकां ददर्श स महाकपिः। वृतां हेममयीभिस्तु वेदिकाभिः समन्ततः॥३७॥ सोऽपश्यद्भूमिभागांश्च नगप्रस्रवणानि च । सुवर्णवृक्षानपरान्ददर्श शिखिसंनिभान् ॥३८॥ तेषां द्रुमाणां प्रभया मेरोरिव महाकपिः। अमन्यत तदा वीरः काञ्चनोऽस्मीति सर्वतः॥३९॥ तान् काञ्चनान् वृक्षगणान् मारुतेन प्रकम्पितान् । किङ्किणीशतनिर्घोषान् दृष्ट्वा विस्मयमागमत् ॥४०॥ सुपुष्पिताग्रान् रुचिरांस्तरुणाङ्कुरपल्लवान् । तामारुह्य महावेगः शिंशपां पर्णसंवृताम् ॥४१॥ इतो द्रक्ष्यामि वैदेहीं राम दर्शनलालसाम् । इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया ॥४२॥ अशोकवनिका चेयं दृढं रम्या दुरात्मनः। चन्दनैश्चम्पकैश्चापि बकुलैश्च विभूषिता ॥४३॥ इयं च नलिनी रम्या द्विजसङ्घनिषेविता । इमां सा राजमहिषी नूनमेष्यति जानकी ॥४४॥ सा रामा राजमहिषी राघवस्य प्रिया सती । वनसञ्चारकुशला ध्रुवमेष्यति जानकी ॥४५॥ अथवा मृगशावाक्षी वनस्यास्य विचक्षणा । वनमेष्यति साद्येह रामचिन्तासुकर्शिता ॥४६॥ रामशोकाभिसन्तप्ता सा देवी वामलोचना । वनवासरता नित्यमेष्यते वनचारिणी ॥४७॥ वनेचराणां सततं नूनं स्पृहयते पुरा । रामस्य दयिता चार्या जनकस्य सुता सती ॥४८॥ सन्ध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी । नदीं चेमां शुभजलां सन्ध्यार्थे वरवर्णिनी ॥४९॥ तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा । शुभायाः पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता ॥५०॥ यदि जीवति सा देवी ताराधिपनिभानना । आगमिष्यति सावश्यमिमां शितजलां नदीम् ॥५१॥ एवं तु मत्वा हनुमान्महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम् । अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः॥५२॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चथुर्दशः सर्गः