अथ षोडशः सर्गः प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः। गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत् ॥१॥ स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः। सीतामाश्रित्य तेजस्वी हनुमान् विललाप ह ॥२॥ मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया । यदि सीता हि दुःखार्ता कालो हि दुरतिक्रमः॥३॥ रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः। नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे ॥४॥ तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् । राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥५॥ तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम् । जगाम मनसा रामं वचनं चेदमब्रवीत् ॥६॥ अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः। रावणप्रतिमो वीर्ये कबन्धश्च निपातितः॥७॥ विराधश्च हतः सङ्ख्ये राक्षसो भीमविक्रमः। वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः॥८॥ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । निहतानि जनस्थाने शरैरग्निशिखोपमैः॥९॥ खरश्च निहतः सङ्ख्ये त्रिशिराश्च निपातितः। दूषणश्च महातेजा रामेण विदितात्मना ॥१०॥ ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम् । अस्या निमित्ते सुग्रीवः प्राप्तवाँल्लोकविशृतः॥११॥ सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः। अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता ॥१२॥ यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् । अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः॥१३॥ राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा । त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात्कलाम् ॥१४॥ इयं सा धर्मशीलस्य जनकस्य महात्मनः। सुता मैथिलराजस्य सीता भर्तृदृढव्रता ॥१५॥ उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते । पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः॥१६॥ विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः। स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी ॥१७॥ धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः। इयं सा दयिता भार्या राक्षसी वशमागता ॥१८॥ सर्वान्भोगान्परित्यज्य भर्तृस्नेहबलात्कृता । अचिन्तयित्वा कष्टानि प्रविष्टा निर्जनं वनम् ॥१९॥ सन्तुष्टा फलमूलेन भर्तृशुश्रूषणा परा । या परां भजते प्रीतिं वनेऽपि भवने यथा ॥२०॥ सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी । सहते यातनामेतामनर्थानामभागिनी ॥२१॥ इमां तु शीलसम्पन्नां द्रष्टुमिच्छति राघवः। रावणेन प्रमथितां प्रपामिव पिपासितः॥२२॥ अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति । राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम् ॥२३॥ कामभोगैः परित्यक्ता हीना बन्धुजनेन च । धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी ॥२४॥ नैषा पश्यति राक्षस्यो नेमान्पुष्पफलद्रुमान् । एकस्थहृदया नूनं राममेवानुपश्यति ॥२५॥ भर्ता राम परं नार्या शोभनं भूषणादपि । एषा हि रहिता तेन शोभनार्हा न शोभते ॥२६॥ दुष्करं कुरुते रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देहं न दुःखेनावसीदति ॥२७॥ इमामसितकेशान्तां शतपत्रनिभेक्षणाम् । सुखार्हां दुःखितां ज्ञात्वा ममापि व्यथितं मनः॥२८॥ क्षितिक्षमा पुष्करसंनिभाक्षि या रक्षिता राघवलक्ष्मणाभ्याम् । सा राक्षसीभिर्विकृतेक्षणाभिः संरक्ष्यते सम्प्रति वृक्षमूले ॥२९॥ हिमहतनलिनीव नष्टशोभा व्यसनपरम्परया निपीड्यमाना । सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना ॥३०॥ अस्या हि पुष्पावनताग्रशाखाः शोकं दृढं वै जनयन्त्यशोकाः। हिमव्यपायेन च शीतरश्मि- रभ्युत्थितो नैकसहस्ररश्मिः॥३१॥ इत्येवमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव तु जातबुद्धिः। संश्रित्य तस्मिन्निषसाद वृक्षे बली हरीणामृषभस्तरस्वी ॥३२॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षोडशः सर्गः