अथ एकविंशः सर्गः तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः। आर्ता दीनस्वरा दीनं प्रत्युवाच ततः शनैः॥१॥ दुःखार्ता रुदती सीता वेपमाना तपस्विनी । चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ॥२॥ तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता । निवर्तय मनो मत्तः स्वजने क्रियतां मनः॥३॥ न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत् । अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् ॥४॥ कुलं सम्प्राप्तया पुण्यं कुले महति जातया । एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी ॥५॥ रावणं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् । नाहमौपयिकी भार्या परभार्या सती तव ॥६॥ साधु धर्ममवेक्षस्व साधु साधुव्रतं चर । यथा तव तथान्येषां रक्ष्या दारा निशाचर ॥७॥ आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् । अतुष्टं स्वेषु दारेषु चपलं चपलेन्द्रियम् । नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ॥८॥ इह सन्तो न वा सन्ति सतो वा नानुवर्तसे । यथा हि विपरीता ते बुद्धिराचारवर्जिता ॥९॥ वचो मिथ्या प्रणीतात्मा पथ्यमुक्तं विचक्षणैः। राक्षसानामभावाय त्वं वा न प्रतिपद्यसे ॥१०॥ अकृतात्मानमासाद्य राजानमनये रतम् । समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥११॥ तथैव त्वां समासाद्य लङ्का रत्नौघ सङ्कुला । अपराधात्तवैकस्य नचिराद्विनशिष्यति ॥१२॥ स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः। अभिनन्दन्ति भूतानि विनाशे पापकर्मणः॥१३॥ एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः। दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः॥१४॥ शक्या लोभयितुं नाहमैश्वर्येण धनेन वा । अनन्या राघवेणाहं भास्करेण यथा प्रभा ॥१५॥ उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् । कथं नामोपधास्यामि भुजमन्यस्य कस्यचित् ॥१६॥ अहमौपयिकी भार्या तस्यैव च धरापतेः। व्रतस्नातस्य विद्येव विप्रस्य विदितात्मनः॥१७॥ साधु रावण रामेण मां समानय दुःखिताम् । वने वासितया सार्धं करेण्वेव गजाधिपम् ॥१८॥ मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता । बन्धं चानिच्छता घोरं त्वयासौ पुरुषर्षभः॥१९॥ विदितः स हि धर्मज्ञः शरणागतवत्सलः। तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ॥२०॥ प्रसादयस्व त्वं चैनं शरणागतवत्सलम् । मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि ॥२१॥ एवं हि ते भवेत् स्वस्ति सम्प्रदाय रघूत्तमे । अन्यथा त्वं हि कुर्वाणः परां प्राप्स्यसि चापदम् ॥२२॥ वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम् । त्वद्विधं न तु सङ्क्रुद्धो लोकनाथः स राघवः॥२३॥ रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् । शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ॥२४॥ इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः। इषवो निपतिष्यन्ति रामलक्ष्मणलक्षिताः॥२५॥ रक्षांसि निहनिष्यन्तः पुर्यामस्यां न संशयः। असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः॥२६॥ राक्षसेन्द्रमहासर्पान्स रामगरुडो महान् । उद्धरिष्यति वेगेन वैनतेय इवोरगान् ॥२७॥ अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः। असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः॥२८॥ जनस्थाने हतस्थाने निहते रक्षसां बले । अशक्तेन त्वया रक्षः कृतमेतदसाधु वै ॥२९॥ आश्रमं तत्तयोः शून्यं प्रविश्य नरसिंहयोः। गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम ॥३०॥ न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया । शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव ॥३१॥ तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् । वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य विग्रहे ॥३२॥ क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह । तोयमल्पमिवादित्यः प्राणानादास्यते शरैः॥३३॥ गिरिं कुबेरस्य गतोऽथवालयं सभां गतो वा वरुणस्य राज्ञः। असंशयं दाशरथेर्विमोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव ॥३४॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकविंशः सर्गः