अथ त्रयोविंशः सर्गः इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः। सन्दिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ॥१॥ निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते । राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः॥२॥ ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः। परं परुषया वाचा वैदेहीमिदमब्रुवन् ॥३॥ पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः। दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ॥४॥ ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् । आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् ॥५॥ प्रजापतीनां षण्णां तु चतुर्थोऽयं प्रजापतिः। मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः॥६॥ पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः। नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः॥७॥ तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः। तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥८॥ मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे । ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् ॥९॥ विवृत्य नयने कोपान्मार्जारसदृशेक्षणा । येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः॥१०॥ तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि । वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेष्वनिवर्तिनः। बलिनो वीर्ययुक्तस्य भार्या त्वं किं न लिप्ससे ॥११॥ प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः। सर्वासां च महाभागां त्वामुपैष्यति रावणः॥१२॥ समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् । अन्तःपुरं तदुत्सृज्य त्वामुपैष्यति रावणः॥१३॥ अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत् । असकृद् भीमवीर्येण नागा गन्धर्वदानवाः। निर्जिताः समरे येन स ते पार्श्वमुपागतः॥१४॥ तस्य सर्वसमृद्धस्य रावणस्य महात्मनः। किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे ॥१५॥ ततस्तां दुर्मुखी नाम राक्षसी वाक्यमब्रवीत् । यस्य सूर्यो न तपति भीतो यस्य स मारुतः। न वाति स्मायतापाङ्गि किं त्वं तस्य न तिष्ठसे ॥१६॥ पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् । शैलाः सुस्त्रुवुः पानीयं जलदाश्च यदेच्छति ॥१७॥ तस्य नैरृतराजस्य राजराजस्य भामिनि । किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ॥१८॥ साधु ते तत्त्वतो देवि कथितं साधु भामिनि । गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ॥१९॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रयोविंशः सर्गः