अथ एकोनत्रिंशः सर्गः तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम् । शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः॥१॥ तस्याः शुभं वाममरालपक्ष्म राजीवृतं कृष्णविशालशुक्लम् । प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम् ॥२॥ भुजश्च चार्वञ्चितपीनवृत्तः परार्ध्यकालागुरुचन्दनार्हः। अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु ॥३॥ गजेन्द्रहस्तप्रतिमश्च पीन- स्तयोर्द्वयोः संहतयोस्तु जातः। प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात्स्थितमाचचक्षे ॥४॥ शुभं पुनर्हेमसमानवर्ण- मीषद्रजोध्वस्तमिवामलाक्ष्याः । वासः स्थितायाःशिखराग्रदन्त्याः किञ्चित्परिस्रंसत चारुगात्र्याः॥५॥ एतैर्निमित्तैरपरैश्च सुभ्रूः सञ्चोदिता प्रागपि साधुसिद्धैः। वातातपक्लान्तमिव प्रणष्टं वर्षेण बीजं प्रतिसञ्जहर्ष ॥६॥ तस्याः पुनर्बिम्बफलाधरोष्ठं स्वक्षिभ्रुकेशान्तमरालपक्ष्म । वक्त्रं बभासे स्मितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः॥७॥ सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा । अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन ॥८॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनत्रिंशः सर्गः