अथ त्रिंशः सर्गः हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः। सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जितम् ॥१॥ अवेक्षमाणस्तां देवीं देवतामिव नन्दने । ततो बहुविधां चिन्तां चिन्तयामास वानरः॥२॥ यां कपीनां सहस्राणि सुबहून् ययुतानि च । दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥३॥ चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता । गूढेन चरता तावदवेक्षितमिदं मया ॥४॥ राक्षसानां विशेषश्च पुरी चेयं निरीक्षिता । राक्षसाधिपतेरस्य प्रभावो रावणस्य च ॥५॥ यथा तस्याप्रमेयस्य सर्वसत्त्वदयावतः। समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम् ॥६॥ अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् । अदृष्टदुःखां दुःखस्य न ह्यन्तमधिगच्छतीम् ॥७॥ यदि ह्यहं सतीमेनां शोकोपहतचेतनाम् । अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत् ॥८॥ गते हि मयि तत्रेयं राजपुत्री यशस्विनी । परित्राणमपश्यन्ती जानकी जीवितं त्यजेत् ॥९॥ यथा च स महाबाहुः पूर्णचन्द्रनिभाननः। समाश्वासयितुं न्याय्यः सीतादर्शनलालसः॥१०॥ निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषितम् । कथं नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ॥११॥ अनेन रात्रिशेषेण यदि नाश्वास्यते मया । सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ॥१२॥ रामस्तु यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः। किमहं तं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ॥१३॥ सीतासन्देशरहितं मामितस्त्वरया गतम् । निर्दहेदपि काकुत्स्थः क्रोधतीव्रेण चक्षुषा ॥१४॥ यदि वोद्योजयिष्यामि भर्तारं रामकारणात् । व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ॥१५॥ अन्तरं त्वहमासाद्य राक्षसीनामवस्थितः। शनैराश्वासयाम्यद्य सन्तापबहुलामिमाम् ॥१६॥ अहं ह्यतितनुश्चैव वानरश्च विशेषतः। वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ॥१७॥ यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् । रावणं मन्यमाना मां सीता भीता भविष्यति ॥१८॥ अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् । मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ॥१९॥ सेयमालोक्य मे रूपं जानकी भाषितं तथा । रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासमुपैष्यति ॥२०॥ ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी । जानाना मां विशालाक्षी रावणं कामरूपिणम् ॥२१॥ सीतया च कृते शब्दे सहसा राक्षसीगणः। नानाप्रहरणो घोरः समेयादन्तकोपमः॥२२॥ ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः। वधे च ग्रहणे चैव कुर्युर्यत्नं महाबलाः॥२३॥ तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् । दृष्ट्वा च परिधावन्तं भवेयुः परिशङ्किताः॥२४॥ मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् । राक्षस्यो भयवित्रस्ता भवेयुर्विकृतस्वराः॥२५॥ ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि । राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ॥२६॥ ते शूलशरनिस्त्रिंशविविधायुधपाणयः। आपतेयुर्विमर्देऽस्मिन् वेगेनोद्वेगकारणात् ॥२७॥ संरुद्धस्तैस्तु परितो विधमे राक्षसं बलम् । शक्नुयां न तु सम्प्राप्तुं परं पारं महोदधेः॥२८॥ मां वा गृह्णीयुरावृत्य बहवः शीघ्रकारिणः। स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ॥२९॥ हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् । विपन्नं स्यात् ततः कार्यं रामसुग्रीवयोरिदम् ॥३०॥ उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते । सागरेण परिक्षिप्ते गुप्ते वसति जानकी ॥३१॥ विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे । नान्यं पश्यामि रामस्य सहायं कार्यसाधने ॥३२॥ विमृशंश्च न पश्यामि यो हते मयि वानरः। शतयोजनविस्तीर्णं लङ्घयेत महोदधिम् ॥३३॥ कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम् । न तु शक्ष्याम्यहं प्राप्तुं परं पारं महोदधेः॥३४॥ असत्यानि च युद्धानि संशयो मे न रोचते । कश्च निःसंशयं कार्यं कुर्यात्प्राज्ञः ससंशयम् ॥३५॥ एष दोषो महान्हि स्यान्मम सीताभिभाषणे । प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ॥३६॥ भूताश्चार्था विरुध्यन्ति देशकालविरोधिताः। विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥३७॥ अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते । घातयन्ति हि कार्याणि दूताः पण्डितमानिनः॥३८॥ न विनश्येत्कथं कार्यं वैक्लव्यं न कथं मम । लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥३९॥ कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत च । इति सञ्चिन्त्य हनुमांश्चकार मतिमान् मतिम् ॥४०॥ राममक्लिष्टकर्माणं सुबन्धुमनुकीर्तयन् । नैनामुद्वेजयिष्यामि तद्बन्धुगतचेतनाम् ॥४१॥ इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः। शुभानि धर्मयुक्तानि वचनानि समर्पयन् ॥४२॥ श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् । श्रद्धास्यति यथा सीता तथा सर्वं समादधे ॥४३॥ इति स बहुविधं महाप्रभावो जगतिपतेः प्रमदामवेक्षमाणः। मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ॥४४॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिंशः सर्गः