अथ चतुस्त्रिंशः सर्गः तस्यास्तद्वचनं श्रुत्वा हनूमान् हरिपुङ्गवः। दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ॥१॥ अहं रामस्य सन्देशाद्देवि दूतस्तवागतः। वैदेहि कुशली रामः स त्वां कौशलमब्रवीत् ॥२॥ यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः। स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ॥३॥ लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः। कृतवाञ्छोकसन्तप्तः शिरसा तेऽभिवादनम् ॥४॥ सा तयोः कुशलं देवी निशम्य नरसिंहयोः। प्रतिसंहृष्टसर्वाङ्गी हनूमन्तमथाब्रवीत् ॥५॥ कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा । एति जीवन्तमानन्दो नरं वर्षशतादपि ॥६॥ तयोः समागमे तस्मिन् प्रीतिरुत्पादिताद्भुता । परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः॥७॥ तस्यास्तद्वचनं श्रुत्वा हनूमान् मारुतात्मजः। सीतायाः शोकतप्तायाः समीपमुपचक्रमे ॥८॥ यथा यथा समीपं स हनूमानुपसर्पति । तथा तथा रावणं सा तं सीता परिशङ्कते ॥९॥ अहो धिग्धिक्कृतमिदं कथितं हि यदस्य मे । रूपान्तरमुपागम्य स एवायं हि रावणः॥१०॥ तामशोकस्य शाखां तु विमुक्त्वा शोककर्शिता । तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ॥११॥ अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् । सा चैनं भयसन्त्रस्ता भूयो नैनमुदैक्षत ॥१२॥ तं दृष्ट्वा वन्दमानं च सीता शशिनिभानना । अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा ॥१३॥ मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् । उत्पादयसि मे भूयः सन्तापं तन्न शोभनम् ॥१४॥ स्वं परित्यज्य रूपं यः परिव्राजकरूपवान् । जनस्थाने मया दृष्टस्त्वं स एव हि रावणः॥१५॥ उपवासकृशां दीनां कामरूप निशाचर । सन्तापयसि मां भूयः सन्तापं तन्न शोभनम् ॥१६॥ अथवा नैतदेवं हि यन्मया परिशङ्कितम् । मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ॥१७॥ यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते । पृच्छामि त्वां हरिश्रेष्ठ प्रिया राम कथा हि मे ॥१८॥ गुणान् रामस्य कथय प्रियस्य मम वानर । चित्तं हरसि मे सौम्य नदीकूलं यथा रयः॥१९॥ अहो स्वप्नस्य सुखता याहमेव चिराहृता । प्रेषितं नाम पश्यामि राघवेण वनौकसं ॥२०॥ स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् । पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी ॥२१॥ नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् । न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ॥२२॥ किं नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम् । उन्मादजो विकारो वा स्यादयं मृगतृष्णिका ॥२३॥ अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः। सम्बुध्ये चाहमात्मानमिमं चापि वनौकसं ॥२४॥ इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम् । रक्षसां कामरूपत्वान् मेने तं राक्षसाधिपम् ॥२५॥ एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा । न प्रतिव्याजहाराथ वानरं जनकात्मजा ॥२६॥ सीताया निश्चितं बुद्ध्वा हनूमान् मारुतात्मजः। श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयन् ॥२७॥ आदित्य इव तेजस्वी लोककान्तः शशी यथा । राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ॥२८॥ विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः। सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा ॥२९॥ रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान् । स्थानक्रोधे प्रहर्ता च श्रेष्ठो लोके महारथः॥३०॥ बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः। अपक्रम्याश्रमपदान् मृगरूपेण राघवम् ॥३१॥ शून्ये येनापनीतासि तस्य द्रक्ष्यसि तत्फलम् । अचिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान् ॥३२॥ क्रोधप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः। तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः॥३३॥ त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् । लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः॥३४॥ अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत् । रामस्य च सखा देवि सुग्रीवो नाम वानरः॥३५॥ राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् । नित्यं स्मरति ते रामः ससुग्रीवः सलक्ष्मणः॥३६॥ दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता । नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महारथम् ॥३७॥ मध्ये वानरकोटीनां सुग्रीवं चामितौजसं । अहं सुग्रीवसचिवो हनूमान् नाम वानरः॥३८॥ प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् । कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः॥३९॥ त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् । नाहमस्मि तथा देवि यथा मामवगच्छसि । विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ॥४०॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुस्त्रिंशः सर्गः