अथ षट्त्रिंशः सर्गः भूय एव महातेजा हनूमान् पवनात्मजः। अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ॥१॥ वानरोऽहं महाभागे दूतो रामस्य धीमतः। रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥२॥ प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना । समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ॥३॥ गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषितम् । भर्तारमिव सम्प्राप्तं जानकी मुदिताभवत् ॥४॥ चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् । बभूव हर्षोदग्रं च राहुमुक्त इवोडुराट् ॥५॥ ततः सा ह्रीमती बाला भर्तुः सन्देशहर्षिता । परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ॥६॥ विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम । येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ॥७॥ शतयोजनविस्तीर्णः सागरो मकरालयः। विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः॥८॥ नहि त्वां प्राकृतं मन्ये वानरं वानरर्षभ । यस्य ते नास्ति सन्त्रासो रावणादपि सम्भ्रमः॥९॥ अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् । यद्यसि प्रेषितस्तेन रामेण विदितात्मना ॥१०॥ प्रेषयिष्यति दुर्धर्षो रामो नह्यपरीक्षितम् । पराक्रममविज्ञाय मत्सकाशं विशेषतः॥११॥ दिष्ट्या च कुशली रामो धर्मात्मा सत्यसगंरः। लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः॥१२॥ कुशली यदि काकुत्स्थः किं न सागरमेखलाम् । महीं दहति कोपेन युगान्ताग्निरिवोत्थितः॥१३॥ अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे । ममैव तु न दुःखानामस्ति मन्ये विपर्ययः॥१४॥ कच्चिन्न व्यथते रामः कच्चिन्न परितप्यते । उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः॥१५॥ कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति । कच्चित् पुरुषकार्याणि कुरुते नृपतेः सुतः॥१६॥ द्विविधं त्रिविधोपायमुपायमपि सेवते । विजिगीषुः सुहृत् कच्चिन्मित्रेषु च परन्तपः॥१७॥ कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते । कच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः॥१८॥ कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः। कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते ॥१९॥ कच्चिन्न विगतस्नेहो विवासान्मयि राघवः। कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति राघवः॥२०॥ सुखानामुचितो नित्यमसुखानामनूचितः। दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ॥२१॥ कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव च । अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च ॥२२॥ मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः। कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ॥२३॥ कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः। ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ॥२४॥ वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति । मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः॥२५॥ कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः। अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति ॥२६॥ रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणे । द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ॥२७॥ कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि । मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ॥२८॥ धर्मापदेशात्त्यजतः स्वराज्यं मां चाप्यरण्यं नयतः पदातेः। नासीद्व्यथा यस्य न भीर्न शोकः कच्चित्स धैर्यं हृदये करोति ॥२९॥ न चास्य माता न पिता न चान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा । तावद्ध्यहं दूत जिजीविषेयं यावत्प्रवृत्तिं शृणुयां प्रियस्य ॥३०॥ इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा । श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थयुक्तं विरराम रामा ॥३१॥ सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः। शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥३२॥ न त्वामिहस्थां जानीते रामः कमललोचनः। तेन त्वां नानयत्याशु शचीमिव पुरन्दरः॥३३॥ श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः। चमूं प्रकर्षन्महतीं हर्यृक्षगणसंयुताम् ॥३४॥ विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम् । करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ॥३५॥ तत्र यद्यन्तरा मृत्युर्यदि देवाः महासुराः। स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ॥३६॥ तवादर्शनजेनार्ये शोकेन परिपूरितः। न शर्म लभते रामः सिंहार्दित इव द्विपः॥३७॥ मन्दरेण च ते देवि शपे मूलफलेन च । मलयेन च विन्ध्येन मेरुणा दर्दुरेण च ॥३८॥ यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम् । मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ॥३९॥ क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ । शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि ॥४०॥ न मांसं राघवो भुङ्क्ते न चैव मधुसेवते । वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ॥४१॥ नैव दंशान्न मशकान्न कीटान्न सरीसृपान् । राघवोऽपनयेद्गत्रात्त्वद्गतेनान्तरात्मना ॥४२॥ नित्यं ध्यानपरो रामो नित्यं शोकपरायणः। नान्यच्चिन्तयते किञ्चित्स तु कामवशं गतः॥४३॥ अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः। सीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते ॥४४॥ दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत्स्त्रीमनोहरम् । बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ॥४५॥ स देवि नित्यं परितप्यमानः त्वामेव सीतेत्यभिभाषमाणः। धृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः॥४६॥ सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका । शरन्मुखेनाम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ॥४५॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्त्रिंशः सर्गः