अथ अष्टात्रिंशः सर्गः ततः स कपिशार्दूलस्तेन वाक्येन तोषितः। सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः॥१॥ युक्तरूपं त्वया देवि भाषितं शुभदर्शने । सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥२॥ स्त्रीत्वान्न त्वं समर्थासि सागरं व्यतिवर्तितुम् । मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ॥३॥ द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते । रामादन्यस्य नार्हामि संसर्गमिति जानकि ॥४॥ एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः। का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥५॥ श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः। चेष्टितं यत्त्वया देवि भाषितं च ममाग्रतः॥६॥ कारणैर्बहुभिर्देवि राम प्रियचिकीर्षया । स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् ॥७॥ लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः। सामर्थ्यादात्मनश्चैव मयैतत्समुदीरितम् ॥८॥ इच्छामि त्वां समानेतुमद्यैव रघुनन्दिना । गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम् ॥९॥ यदि नोत्सहते यातुं मया सार्धमनिन्दिते । अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् ॥१०॥ एवमुक्ता हनुमता सीता सुरसुतोपमा । उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥११॥ इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् । शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पदे ॥१२॥ तापसाश्रमवासिन्याः प्राज्यमूलफलोदके । तस्मिन्सिद्धाश्रिते देशे मन्दाकिन्यविदूरतः॥१३॥ तस्योपवनखण्डेषु नानापुष्पसुगन्धिषु । विहृत्य सलिले क्लिन्नो ममाङ्के समुपाविशः॥१४॥ ततो मांससमायुक्तो वायसः पर्यतुण्डयत् । तमहं लोष्टमुद्यम्य वारयामि स्म वायसम् ॥१५॥ दारयन्स च मां काकस्तत्रैव परिलीयते । न चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः॥१६॥ उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे । स्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥१७॥ त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा । भक्ष्य गृद्धेन काकेन दारिता त्वामुपागता ॥१८॥ ततः श्रान्ताहमुत्सङ्गमासीनस्य तवाविशम् । क्रुध्यन्तीव प्रहृष्टेन त्वयाहं परिसान्त्विता ॥१९॥ बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती । लक्षिताहं त्वया नाथ वायसेन प्रकोपिता ॥२०॥ परिश्रमाच्च सुप्ता हे राघवाङ्केऽस्म्यहं चिरम् । पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः॥२१॥ स तत्र पुनरेवाथ वायसः समुपागमत् । ततः सुप्तप्रबुद्धां मां राघवाङ्कात् समुत्थिताम् । वायसः सहसागम्य विददार स्तनान्तरे ॥२२॥ पुनः पुनरथोत्पत्य विददार स मां भृशम् । ततः समुत्थितो रामो मुक्तैः शोणितबिन्दुभिः॥२३॥ स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा । आशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत ॥२४॥ केन ते नागनासोरु विक्षतं वै स्तनान्तरम् । कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥२५॥ वीक्षमाणस्ततस्तं वै वायसं समवैक्षत । नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥२६॥ पुत्रः किल स शक्रस्य वायसः पततां वरः। धरान्तरं गतः शीघ्रं पवनस्य गतौ समः॥२७॥ ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः। वायसे कृतवान्क्रूरां मतिं मतिमतां वरः॥२८॥ स दर्भसंस्तराद्गृह्य ब्रह्मणोऽस्त्रेण योजयेत् । स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् ॥२९॥ स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति । ततस्तु वायसं दर्भः सोऽम्बरेऽनुजगाम ह ॥३०॥ अनुसृष्टस्तदा काको जगाम विविधां गतिम् । त्राणकाम इमं लोकं सर्वं वै विचचार ह ॥३१॥ स पित्रा च परित्यक्तः सर्वैश्च परमर्षिभिः। त्रीँल्लोकान्सम्परिक्रम्य तमेव शरणं गतः॥३२॥ स तं निपतितं भूमौ शरण्यः शरणागतम् । वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ॥३३॥ परिद्यूनं विवर्णं च पतमानं तमब्रवीत् । मोघंमस्त्रं न शक्यं तु ब्राह्मं कर्तुं तदुच्यताम् ॥३४॥ ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् । दत्त्वा तु दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः॥३५॥ स रामाय नमस्कृत्वा राज्ञे दशरथाय च । विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥३६॥ मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम् । कस्माद्यो माहरत्त्वत्तः क्षमसे तं महीपते ॥३७॥ स कुरुष्व महोत्साहां कृपां मयि नरर्षभ । त्वया नाथवती नाथ ह्यनाथा इव दृश्यते ॥३८॥ आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतम् । जानामि त्वां महावीर्यं महोत्साहं महाबलम् ॥३९॥ अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम् । भर्तारं ससमुद्राया धरण्या वासवोपमम् ॥४०॥ एवमस्त्रविदां श्रेष्ठो बलवान् सत्त्ववानपि । किमर्थमस्त्रं रक्षःसु न योजयसि राघव ॥४१॥ न नागा नापि गन्धर्वा न सुरा न मरुद्गणाः। रामस्य समरे वेगं शक्ताः प्रतिसमीहितुम् ॥४२॥ तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः। किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ॥४३॥ भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः। कस्य हेतोर्न मां वीरः परित्राति महाबलः॥४४॥ यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ । सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः॥४५॥ ममैव दुष्कृतं किञ्चिन्महदस्ति न संशयः। समर्थावपि तौ यन्मां नावेक्षेते परन्तपौ ॥४६॥ वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् । अथाब्रवीन्महातेजा हनुमान् हरियूथपः॥४७॥ त्वच्छोकविमुखो रामो देवि सत्येन ते शपे । रामे दुःखाभिपन्ने तु लक्ष्मणः परितप्यते ॥४८॥ कथञ्चिद्भवती दृष्टा न कालः परिशोचितुम् । इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि शोभने ॥४९॥ तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ । त्वद्दर्शनकृतोत्साहौ लोकान् भस्मीकरिष्यतः॥५०॥ हत्त्वा च समरक्रूरं रावणं सहबान्धवम् । राघवस्त्वां विशालाक्षि स्वां पुरीं प्रति नेष्यति ॥५१॥ ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः। सुग्रीवो वापि तेजस्वी हरयो वा समागताः॥५२॥ इत्युक्तवति तस्मिंश्च सीता पुनरथाब्रवीत् । कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ॥५३॥ तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय । स्रजश्च सर्वरत्नानि प्रियायाश्च वराङ्गनाः॥५४॥ ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् । पितरं मातरं चैव संमान्याभिप्रसाद्य च ॥५५॥ अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः। आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ॥५६॥ अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने । सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः॥५७॥ पितृवद्वर्तते रामे मातृवन्मां समाचरत् । ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः॥५८॥ वृद्धोपसेवी लक्ष्मीवाञ्शक्तो न बहुभाषिता । राजपुत्रः प्रियश्रेष्ठः सदृशः श्वशुरस्य मे ॥५९॥ मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः। नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ॥६०॥ यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरत् । स ममार्थाय कुशलं वक्तव्यो वचनान्मम ॥६१॥ मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः। यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् ॥६२॥ त्वमस्मिन् कार्यनिर्वाहे प्रमाणं हरियूथप । राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ॥६३॥ इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः। जीवितं धारयिष्यामि मासं दशरथात्मज ॥६४॥ ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते । रावणेनोपरुद्धां मां निकृत्या पापकर्मणा । त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ॥६५॥ ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् । प्रदेयो राघवायेति सीता हनुमते ददौ ॥६६॥ प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् । अङ्गुल्या योजयामास नह्यस्य प्राभवद्भुजः॥६७॥ मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च । सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः॥६८॥ हर्षेण महता युक्तः सीतादर्शनजेन सः। हृदयेन गतो रामं लक्ष्मणं च सलक्षणम् ॥६९॥ मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् । गिरिवरपवनावधूतमुक्तः सुखितमनाः प्रतिसङ्क्रमं प्रपेदे ॥७०॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टात्रिंशः सर्गः