अथ चत्वारिंशः सर्गः श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः। उवाचात्महितं वाक्यं सीता सुरसुतोपमा ॥१॥ त्वां दृष्ट्वा प्रियवक्तारं सम्प्रहृष्यामि वानर । अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा ॥२॥ यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः। संस्पृशेयं सकामाहं तथा कुरु दयां मयि ॥३॥ अभिज्ञानं च रामस्य दद्या हरिगणोत्तम । क्षिप्तामिषिकां काकस्य कोपादेकाक्षिशातनीम् ॥४॥ मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः। त्वया प्रणष्टे तिलके तं किल स्मर्तुमर्हसि ॥५॥ स वीर्यवान् कथं सीतां हृतां समनुमन्यसे । वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपम ॥६॥ एष चूडामणिर्दिव्यो मया सुपरिरक्षितः। एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ॥७॥ एष निर्यातितः श्रीमान् मया ते वारिसम्भवः। अतः परं न शक्ष्यामि जीवितुं शोकलालसा ॥८॥ असह्यानि च दुःखानि वाचश्च हृदयच्छिदः। राक्षसैः सह संवासं त्वत्कृते मर्षयाम्यहम् ॥९॥ धारयिष्यामि मासं तु जीवितं शत्रुसूदन । मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ॥१०॥ घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि । त्वां च श्रुत्वा विषज्जन्तं न जीवेयमपि क्षणम् ॥११॥ वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् । अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः॥१२॥ त्वच्छोकविमुखो रामो देवि सत्येन ते शपे । रामे शोकाभिभूते तु लक्ष्मणः परितप्यते ॥१३॥ दृष्टा कथञ्चिद्भवती न कालः परिदेवितुम् । इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ॥१४॥ तावुभौ पुरुषव्याघ्रौ राजपुत्रावनिन्दितौ । त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः॥१५॥ हत्वा तु समरे रक्षो रावणं सहबान्धवैः। राघवौ त्वां विशालाक्षि स्वां पुरीं प्रति नेष्यतः॥१६॥ यत्तु रामो विजानीयादभिज्ञानमनिन्दिते । प्रीतिसञ्जननं भूयस्तस्य त्वं दातुमर्हसि ॥१७॥ साब्रवीद्दत्तमेवाहो मयाभिज्ञानमुत्तमम् । एतदेव हि रामस्य दृष्ट्वा यत्नेन भूषणम् ॥१८॥ श्रद्धेयं हनुमन्वाक्यं तव वीर भविष्यति । स तं मणिवरं गृह्य श्रीमान्प्लवगसत्तमः॥१९॥ प्रणम्य शिरसा देवीं गमनायोपचक्रमे । तमुत्पातकृतोत्साहमवेक्ष्य हरियूथपम् ॥२०॥ वर्धमानं महावेगमुवाच जनकात्मजा । अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा ॥२१॥ हनूमन्सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ । सुग्रीवं च सहामात्यं सर्वान्ब्रूया अनामयम् ॥२२॥ यथा च स महाबाहुर्मां तारयति राघवः। अस्माद्दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि ॥२३॥ इदं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च । ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वाऽस्तु हरिप्रवीर ॥२४॥ स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः। तदल्पशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदीचीं मनसा जगाम ॥२५॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चत्वारिंशः सर्गः