अथ एकचत्वारिंशः सर्गः स च वाग्भिः प्रशस्ताभिर्गमिष्यन् पूजितस्तया । तस्माद्देशादपाक्रम्य चिन्तयामास वानरः॥१॥ अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा । त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ॥२॥ न साम रक्षःसु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते । न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेष ममेह रोचते ॥३॥ न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते । हतप्रवीराश्च रणे तु राक्षसाः कथञ्चिदीयुर्यदिहाद्य मार्दवम् ॥४॥ कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत् । पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥५॥ न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः। यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥६॥ इहैव तावत्कृतनिश्चयो ह्यहं व्रजेयमद्य प्लवगेश्वरालयम् । परात्मसंमर्द विशेषतत्त्ववित् ततःकृतं स्यान्मम भर्तृशासनम् ॥७॥ कथं नु खल्वद्य भवेत्सुखागतं प्रसह्य युद्धं मम राक्षसैः सह । तथैव खल्वात्मबलं च सारवत् समानयेन्मां च रणे दशाननः॥८॥ ततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलं सयायिनम् । हृदि स्थितं तस्य मतं बलं च सुखेन मत्वाहमितः पुनर्व्रजे ॥९॥ इदमस्य नृशंसस्य नन्दनोपममुत्तमम् । वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ॥१०॥ इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः। अस्मिन्भग्ने ततः कोपं करिष्यति स रावणः॥११॥ ततो महत्साश्वमहारथद्विपं बलं समानेष्यति राक्षसाधिपः। त्रिशूलकालायसपट्टिशायुधं ततो महद्युद्धमिदं भविष्यति ॥१२॥ अहं च तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरभङ्गविक्रमः। निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि हरीश्वरालयम् ॥१३॥ ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः। ऊरुवेगेन महता द्रुमान्क्षेप्तुमथारभत् ॥१४॥ ततस्तद्धनुमान्वीरो बभञ्ज प्रमदावनम् । मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥१५॥ तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः। चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥१६॥ नानाशकुन्तविरुतैः प्रभिन्नसलिलाशयैः। ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतैः॥१७॥ न बभौ तद्वनं तत्र दावानलहतं यथा । व्याकुलावरणा रेजुर्विह्वला इव ता लताः॥१८॥ लतागृहैश्चित्रगृहैश्च सादितै- र्व्यालैर्मृगैरार्तरवैश्च पक्षिभिः। शिलागृहैरुन्मथितैस्तथा गृहैः प्रणष्टरूपं तदभून्महद्वनम् ॥१९॥ सा विह्वलाशोकलताप्रताना वनस्थली शोकलताप्रताना । जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य ॥२०॥ ततः स कृत्वा जगतीपतेर्महान् महद्व्यलीकं मनसो महात्मनः। युयुत्सुरेको बहुभिर्महाबलैः श्रियाज्वलंस्तोरणमाश्रितः कपिः॥२१॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकचत्वारिंशः सर्गः