अथ द्विचत्वारिंशः सर्गः ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च । बभूवुस्त्राससम्भ्रान्ताः सर्वे लङ्कानिवासिनः॥१॥ विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः। रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ॥२॥ ततो गतायां निद्रायां राक्षस्यो विकृताननाः। तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ॥३॥ स ता दृष्ट्व महाबाहुर्महासत्त्वो महाबलः। चकार सुमहद्रूपं राक्षसीनां भयावहम् ॥४॥ ततस्तु गिरिसङ्काशमतिकायं महाबलम् । राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥५॥ कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः। कथं त्वया सहानेन संवादः कृत इत्युत ॥६॥ आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् । संवादमसितापाङ्गि त्वया किं कृतवानयम् ॥७॥ अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गशोभना । रक्षसां कामरूपाणां विज्ञाने का गतिर्मम ॥८॥ यूयमेवास्य जानीत योऽयं यद्वा करिष्यति । अहिरेव ह्यहेः पादान्विजानाति न संशयः॥९॥ अहमप्यति भीतास्मि नैव जानामि को ह्ययम् । वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ॥१०॥ वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम् । स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ॥११॥ रावणस्य समीपे तु राक्षस्यो विकृताननाः। विरूपं वानरं भीमं रावणाय न्यवेदिषुः॥१२॥ अशोकवनिका मध्ये राजन् भीमवपुः कपिः। सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः॥१३॥ न च तं जानकी सीता हरिं हरिणलोचना । अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति ॥१४॥ वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा । प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया ॥१५॥ तेनैवाद्भुतरूपेण यत्तत्तव मनोहरम् । नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ॥१६॥ न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः। यत्र सा जानकी देवी स तेन न विनाशितः॥१७॥ जानकीरक्षणार्थं वा श्रमाद्वा नोपलक्ष्यते । अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ॥१८॥ चारुपल्लवपत्राढ्यं यं सीता स्वयमास्थिता । प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः॥१९॥ तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि । सीता सम्भाषिता येन वनं तेन विनाशितम् ॥२०॥ मनःपरिगृहीतां तां तव रक्षोगणेश्वर । कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः॥२१॥ राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः। चिताग्निरिव जज्वाल कोपसंवर्तितेक्षणः॥२२॥ तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः। दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः॥२३॥ आत्मनः सदृशान् वीरान्किङ्करान्नाम राक्षसान् । व्यादिदेश महातेजा निग्रहार्थं हनूमतः॥२४॥ तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् । निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः॥२५॥ महोदरा महादंष्ट्रा घोररूपा महाबलाः। युद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः॥२६॥ ते कपिं तं समासाद्य तोरणस्थमवस्थितम् । अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ॥२७॥ ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः। आजग्मुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः॥२८॥ मुद्गरैः पट्टिशैः शूलैः प्रासतोमरपाणयः। परिवार्य हनूमन्तं सहसा तस्थुरग्रतः॥२९॥ हनूमानपि तेजस्वी श्रीमान्पर्वतसंनिभः। क्षितावाविद्ध्य लाङ्गूलं ननाद च महाध्वनिम् ॥३०॥ स भूत्वा तु महाकायो हनुमान्मारुतात्मजः। पुच्छमास्फोटयामास लङ्कां शब्देन पूरयन् ॥३१॥ तस्यास्फोटितशब्देन महता चानुनादिना । पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत् ॥३२॥ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः॥३३॥ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः॥३४॥ न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् । शिलाभिश्च प्रहरतः पादपैश्च सहस्रशः॥३५॥ अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् । समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥३६॥ तस्य संनादशब्देन तेऽभवन्भयशङ्किताः। ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ॥३७॥ स्वामिसन्देशनिःशङ्कास्ततस्ते राक्षसाः कपिम् । चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः॥३८॥ स तैः परिवृतः शूरैः सर्वतः स महाबलः। आससादायसं भीमं परिघं तोरणाश्रितम् ॥३९॥ स तं परिघमादाय जघान रजनीचरान् । सपन्नगमिवादाय स्फुरन्तं विनतासुतः॥४०॥ विचचाराम्बरे वीरः परिगृह्य च मारुतिः। सूदयामास वज्रेण दैत्यानिव सहस्रदृक् ॥४१॥ स हत्वा राक्षसान्वीरः किङ्करान्मारुतात्मजः। युद्धाकाङ्क्षी महावीरस्तोरणं समवस्थितः॥४२॥ ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः। निहतान्किङ्करान्सर्वान्रावणाय न्यवेदयन् ॥४३॥ स राक्षसानां निहतं महाबलं निशम्य राजा परिवृत्तलोचनः। समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम् ॥४४॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विचत्वारिंशः सर्गः