अथ त्रिचत्वारिंशः सर्गः ततः स किङ्करान् हत्वा हनूमान् ध्यानमास्थितः। वनं भग्नं मया चैत्यप्रासादो न विनाशितः॥१॥ तस्मात्प्रासादमद्यैवमिमं विध्वंसयाम्यहम् । इति सञ्चिन्त्य हनुमान्मनसादर्शयन् बलम् ॥२॥ चैत्यप्रासादमुत्प्लुत्य मेरुशृङ्गमिवोन्नतम् । आरुरोह हरिश्रेष्ठो हनूमान्मारुतात्मजः॥३॥ आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः। बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः॥४॥ सम्प्रधृष्य तु दुर्धर्षश्चैत्यप्रासादमुन्नतम् । हनूमान्प्रज्वलँल्लक्ष्म्या पारियात्रोपमोऽभवत् ॥५॥ स भूत्वा सुमहाकायः प्रभावान् मारुतात्मजः। धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥६॥ तस्यास्फोटितशब्देन महता श्रोत्रघातिना । पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः॥७॥ अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः॥८॥ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः॥९॥ न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् । शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः॥१०॥ अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् । समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥११॥ एवमुक्त्वा महाकायश्चैत्यस्थो हरियूथपः। ननाद भीमनिर्ह्रादो रक्षसां जनयन्भयम् ॥१२॥ तेन नादेन महता चैत्यपालाः शतं ययुः। गृहीत्वा विविधानस्त्रान्प्रासान्खड्गान्परश्वधान् ॥१३॥ विसृजन्तो महाकाया मारुतिं पर्यवारयन् । ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः॥१४॥ आजग्मुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः। आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ॥१५॥ परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः। ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः॥१६॥ प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम् । उत्पाटयित्वा वेगेन हनूमान्मारुतात्मजः॥१७॥ ततस्तं भ्रामयामास शतधारं महाबलः। तत्र चाग्निस्समभवत्प्रासादश्चाप्यदह्यत ॥१८॥ दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः। स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् ॥१९॥ अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत् । मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ॥२०॥ बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् । अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः॥२१॥ दशनागबलाः केचित्केचिद्दशगुणोत्तराः। केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः॥२२॥ सन्ति चौघबलाः केचित् सन्ति वायुबलोपमाः। अप्रमेयबलाः केचित् तत्रासन्हरियूथपाः॥२३॥ ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः। शतैः शतसहस्रैश्च कोटीभिश्चायुतैरपि ॥२४॥ आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः। नेयमस्ति पुरी लङ्का न यूयं न च रावणः। यस्य त्विक्ष्वाकुवीरेण बद्धं वैरं महात्मना ॥२५॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः