अथ चतुश्चत्वारिंशः सर्गः सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली । जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः॥१॥ रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः। महान्विवृत्तनयनश्चण्डः समरदुर्जयः॥२॥ धनुः शक्रधनुः प्रख्यं महद् रुचिरसायकम् । विस्फारयाणो वेगेन वज्राशनिसमस्वनम् ॥३॥ तस्य विस्फारघोषेण धनुषो महता दिशः। प्रदिशश्च नभश्चैव सहसा समपूर्यत ॥४॥ रथेन खरयुक्तेन तमागतमुदीक्ष्य सः। हनूमान्वेगसम्पन्नो जहर्ष च ननाद च ॥५॥ तं तोरणविटङ्कस्थं हनूमन्तं महाकपिम् । जम्बुमाली महातेजा विव्याध निशितैः शरैः॥६॥ अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना । बाह्वोर्विव्याध नाराचैर्दशभिस्तु कपीश्वरम् ॥७॥ तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् । शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ॥८॥ तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् । यथाऽऽकाशे महापद्मं सिक्तं काञ्चनबिन्दुभिः॥९॥ चुकोप बाणाभिहतो राक्षसस्य महाकपिः। ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम् ॥१०॥ तरसा तां समुत्पाट्य चिक्षेप जववद् बली । तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः॥११॥ विपन्नं कर्म तद्दृष्ट्वा हनूमांश्चण्डविक्रमः। सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥१२॥ भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् । चिक्षेप सुबहून्बाणाञ्जम्बुमाली महाबलः॥१३॥ सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे । उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥१४॥ स शरैः पूरिततनुः क्रोधेन महता वृतः। तमेव परिघं गृह्य भ्रामयामास वेगितः॥१५॥ अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः। परिघं पातयामास जम्बुमालेर्महोरसि ॥१६॥ तस्य चैव शिरो नास्ति न बाहू जानुनी न च । न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः॥१७॥ स हतस्तरसा तेन जम्बुमाली महारथः। पपात निहतो भूमौ चूर्णिताङ्ग इव द्रुमः॥१८॥ जम्बुमालिं सुनिहतं किङ्करांश्च महाबलान् । चुक्रोध रावणः श्रुत्वा क्रोधसंरक्तलोचनः॥१९॥ स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले । अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः॥२०॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः