अथ पञ्चचत्वारिंशः सर्गः ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः। निर्ययुर्भवनात्तस्मात्सप्त सप्तार्चिवर्चसः॥१॥ महद्बलपरीवारा धनुष्मन्तो महाबलाः। कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः॥२॥ हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः। तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः॥३॥ तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः। विस्फारयन्तः संहृष्टास्तडिद्वन्त इवाम्बुदाः॥४॥ जनन्यस्तास्ततस्तेषां विदित्वा किङ्करान्हतान् । बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः॥५॥ ते परस्परसङ्घर्षात् तप्तकाञ्चनभूषणाः। अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ॥६॥ सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः। प्रावृट्काल इवाम्भोदा विचेरुर्नैरृताम्बुदाः॥७॥ अवकीर्णस्ततस्ताभिर्हनूमाञ्शरवृष्टिभिः। अभवत्संवृताकारः शैलराडिव वृष्टिभिः॥८॥ स शरान्वञ्चयामास तेषामाशुचरः कपिः। रथवेगांश्च वीराणां विचरन्विमलेऽम्बरे ॥९॥ स तैः क्रीडन्धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते । धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ॥१०॥ स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् । चकार हनुमान्वेगं तेषु रक्षःसु वीर्यवान् ॥११॥ तलेनाभिहनत्कांश्चित्पादैः कांश्चित्परन्तपः। मुष्टिभिश्चाहनत्कांश्चिन्नखैः कांश्चिद्व्यदारयत् ॥१२॥ प्रममाथोरसा कांश्चिदूरुभ्यामपरानपि। केचित् तस्यैव नादेन तत्रैव पतिता भुवि ॥१३॥ ततस्तेष्ववपन्नेषु भूमौ निपतितेषु च । तत्सैन्यमगमत्सर्वं दिशो दश भयार्दितम् ॥१४॥ विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः। भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद्रथैः॥१५॥ स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि । विविधैश्च स्वनैर्लङ्का ननाद विकृतं तदा ॥१६॥ स तान्प्रवृद्धान्विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः। युयुत्सुरन्यैः पुनरेव राक्षसै- स्तदेव वीरोऽभिजगाम तोरणम् ॥१७॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः