अथ षट्चत्वारिंशः सर्गः हतान्मन्त्रिसुतान्बुद्ध्वा वानरेण महात्मना । रावणः संवृताकारश्चकार मतिमुत्तमाम् ॥१॥ स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसं । प्रघसं भासकर्णं च पञ्चसेनाग्रनायकान् ॥२॥ सन्दिदेश दशग्रीवो वीरान्नयविशारदान् । हनूमद्ग्रहणेऽव्यग्रान् वायुवेगसमान्युधि ॥३॥ यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः। सवाजिरथमातङ्गाः स कपिः शास्यतामिति ॥४॥ यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् । कर्म चापि समाधेयं देशकालाविरोधितम् ॥५॥ न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् । सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ॥६॥ वानरोऽयमिति ज्ञात्वा नहि शुद्ध्यति मे मनः। नैवाहं तं कपिं मन्ये यथेयं प्रस्तुता कथा ॥७॥ भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् । सनागयक्षगन्धर्व देवासुरमहर्षयः॥८॥ युष्माभिः प्रहितैः सर्वैर्मया सह विनिर्जिताः। तैरवश्यं विधातव्यं व्यलीकं किञ्चिदेव नः॥९॥ तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम् । यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः॥१०॥ सवाजिरथमातङ्गाः स कपिः शास्यतामिति । नावमन्यो भवद्भिश्च कपिर्धीरपराक्रमः॥११॥ दृष्टा हि हरयः पूर्वे मया विपुलविक्रमाः। वाली च सह सुग्रीवो जाम्बवांश्च महाबलः॥१२॥ नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः। नैव तेषां गतिर्भीमा न तेजो न पराक्रमः॥१३॥ न मतिर्न बलोत्साहो न रूपपरिकल्पनम् । महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ॥१४॥ प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः। कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः॥१५॥ भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे । तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ॥१६॥ आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला । ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः॥१७॥ समुत्पेतुर्महावेगा हुताशसमतेजसः। रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः॥१८॥ शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपहिता बलैः। ततस्तु ददृशुर्वीरा दीप्यमानं महाकपिम् ॥१९॥ रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् । तोरणस्थं महावेगं महासत्त्वं महाबलम् ॥२०॥ महामतिं महोत्साहं महाकायं महाभुजम् । तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः॥२१॥ तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः। तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः। शिरस्त्युत्पलपत्राभा दुर्धरेण निपातिताः॥२२॥ स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः। उत्पपात नदन्व्योम्नि दिशो दश विनादयन् ॥२३॥ ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः। किरञ्शरशतैर्नैकैरभिपेदे महाबलः॥२४॥ स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् । वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः॥२५॥ अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः। चकार निनदं भूयो व्यवर्धत च वीर्यवान् ॥२६॥ स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः। निपपात महावेगो विद्युद्राशिर्गिराविव ॥२७॥ ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम् । विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः॥२८॥ तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि । तौ जातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ ॥२९॥ स ताभ्यां सहसोत्प्लुत्य विष्ठितो विमलेऽम्बरे । मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः॥३०॥ तयोर्वेगवतोर्वेगं निहत्य स महाबलः। निपपात पुनर्भूमौ सुपर्ण इव वेगितः॥३१॥ स सालवृक्षमासाद्य समुत्पाट्य च वानरः। तावुभौ राक्षसौ वीरौ जघान पवनात्मजः॥३२॥ ततस्तांस्त्रीन्हताञ्ज्ञात्वा वानरेण तरस्विना । अभिपेदे महावेगः प्रसह्य प्रघसो बली ॥३३॥ भासकर्णश्च सङ्क्रुद्धः शूलमादाय वीर्यवान् । एकतः कपिशार्दूलं यशस्विनमवस्थितौ ॥३४॥ पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत् । भासकर्णश्च शूलेन राक्षसः कपिकुञ्जरम् ॥३५॥ स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः। अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः॥३६॥ समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् । जघान हनुमान्वीरो राक्षसौ कपिकुञ्जरः। गिरिशृङ्गसुनिष्पिष्टौ तिलशस्तौ बभूवतुः॥३७॥ ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु । बलं तदवशेषं तु नाशयामास वानरः॥३८॥ अश्वैरश्वान्गजैर्नागान्योधैर्योधान्रथै रथान् । स कपिर्नाशयामास सहस्राक्ष इवासुरान् ॥३९॥ हतैर्नागैस्तुरङ्गैश्च भग्नाक्षैश्च महारथैः। हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः॥४०॥ ततः कपिस्तान्ध्वजिनीपतीन्रणे निहत्य वीरान्सबलान्सवाहनान् । तथैव वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ॥४१॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्चत्वारिंशः सर्गः