अथ सप्तचत्वारिंशः सर्गः सेनापतीन्पञ्च स तु प्रमापितान् हनूमता सानुचरान्सवाहनान् । निशम्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताक्षम् ॥१॥ स तस्य दृष्ट्यर्पणसम्प्रचोदितः प्रतापवान्काञ्चनचित्रकार्मुकः। समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः॥२॥ ततो महान् बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसन्ततम् । रथां समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैरृतर्षभः॥३॥ ततस्तपःसङ्ग्रहसञ्चयार्जितं प्रतप्तजाम्बूनदजालचित्रितम् । पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम् ॥४॥ सुरासुराधृष्यमसङ्गचारिणं तडित्प्रभं व्योमचरं समाहितम् । सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ॥५॥ विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा । दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः॥६॥ स पूरयन्खं च महीं च साचलां तुरङ्गमतङ्गमहारथस्वनैः। बलैः समेतैः सहतोरणस्थितं समर्थमासीनमुपागमत्कपिम् ॥७॥ स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये । अवस्थितं विस्मितजातसम्भ्रमं समैक्षताक्षो बहुमानचक्षुषा ॥८॥ स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु रावणात्मजः। विचारयन् स्वं च बलं महाबलो युगक्षये सूर्य इवाभिवर्धत ॥९॥ स जातमन्युः प्रसमीक्ष्य विक्रमं स्थितः स्थिरः संयति दुर्निवारणम् । समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शितैः शरैस्त्रिभिः॥१०॥ ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोचितम् । अवैक्षताक्षः समुदीर्णमानसं सबाणपाणिः प्रगृहीतकार्मुकः॥११॥ स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशु पराक्रमः कपिम् । तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि सम्भ्रमप्रदः॥१२॥ ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः। कपेः कुमारस्य च वीर्यसंयुगं ननाद च द्यौरुदधिश्च चुक्षुभे ॥१३॥ स तस्य वीरः सुमुखान्पतत्रिणः सुवर्णपुङ्खान्सविषानिवोरगान् । समाधिसंयोगविमोक्षतत्त्ववि- च्छरानथ त्रीन्कपिमूर्ध्न्यताडयत् ॥१४॥ स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तनेत्रः। नवोदितादित्यनिभः शरांशुमान् व्यराजतादित्य इवांशुमालिकः॥१५॥ ततः प्लवङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे । उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः॥१६॥ स मन्दराग्रस्थ इवांशुमाली विवृद्धकोपो बलवीर्यसंवृतः। कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा ॥१७॥ ततः स बाणासनशक्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः। शरान्मुमोचाशु हरीश्वराचले बलाहको वृष्टिमिवाचलोत्तमे ॥१८॥ कपिस्ततस्तं रणचण्डविक्रमं प्रवृद्धतेजोबलवीर्यसायकम् । कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद् घनतुल्यनिःस्वनः॥१९॥ स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः। समाससादाप्रतिमं रणे कपिं गजो महाकूपमिवावृतं तृणैः॥२०॥ स तेन बाणैः प्रसभं निपातितै- श्चकार नादं घननादनिःस्वनः। समुत्सहेनाशु नभः समारुजन् भुजोरुविक्षेपणघोरदर्शनः॥२१॥ तमुत्पतन्तं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान् । रथी रथश्रेष्ठतरः किरञ्छरैः पयोधरः शैलमिवाश्मवृष्टिभिः॥२२॥ स ताञ्छरांस्तस्य हरिर्विमोक्षयं- श्चचार वीरः पथि वायुसेविते । शरान्तरे मारुतवद्विनिष्पतन् मनोजवः संयति भीमविक्रमः॥२३॥ तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विविधैः शरोत्तमैः। अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां स च मारुतात्मजः॥२४॥ ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवर्येण महात्मना नदन् । महाभुजः कर्मविशेषतत्त्वविद् विचिन्तयामास रणे पराक्रमम् ॥२५॥ अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः। न चास्य सर्वाहवकर्मशालिनः प्रमापणे मे मतिरत्र जायते ॥२६॥ अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे । असंशयं कर्मगुणोदयादयं सनागयक्षैर्मुनिभिश्च पूजितः॥२७॥ पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखोऽग्रतः स्थितः। पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रकारिणः॥२८॥ न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते । प्रमापणं ह्यस्य ममाद्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः॥२९॥ इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान् । चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे तदानीम् ॥३०॥ स तस्य तानष्ट वरान् महाहयान् समाहितान्भारसहान्विवर्तने । जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः॥३१॥ ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः। स भग्ननीडः परिवृत्तकूबरः पपात भूमौ हतवाजिरम्बरात् ॥३२॥ स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतन् । ततोऽभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम् ॥३३॥ कपिस्ततस्तं विचरन्तमम्बरे पतत्रिराजानिलसिद्धसेविते । समेत्य तं मारुतवेगविक्रमः क्रमेण जग्राह च पादयोर्दृढम् ॥३४॥ स तं समाविध्य सहस्रशः कपि- र्महोरगं गृह्य इवाण्डजेश्वरः। मुमोच वेगात्पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः॥३५॥ स भग्नबाहूरुकटीपयोधरः क्षरन्नसृङिनर्मथितास्थिलोचनः। सम्भिन्नसन्धिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः॥३६॥ महाकपिर्भूमितले निपीड्य तं चकार रक्षोऽधिपतेर्महद्भयम् । महर्षिभिश्चक्रचरैः समागतैः समेत्य भूतैश्च सयक्षपन्नगैः। सुरैश्च सेन्द्रैर्भृशजातविस्मयै- र्हते कुमारे स कपिर्निरीक्षितः॥३७॥ निहत्य तं वज्रिसुतोपमं रणे कुमारमक्षं क्षतजोपमेक्षणम् । तदेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ॥३८॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः