अथ एकोनपञ्चाशः सर्गः ततः स कर्मणा तस्य विस्मितो भीमविक्रमः। हनुमान् क्रोधताम्राक्षो रक्षोऽधिपमवैक्षत ॥१॥ भ्राजमानं महार्हेण काञ्चनेन विराजता । मुक्ताजालवृतेनाथ मुकुटेन महाद्युतिम् ॥२॥ वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः। हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः॥३॥ महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् । स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः॥४॥ विचित्रं दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः। दीप्ततीक्ष्णमहादंष्ट्रं प्रलम्बं दशनच्छदैः॥५॥ शिरोभिर्दशभिर्वीरो भ्राजमानं महौजसं । नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् ॥६॥ नीलाञ्जनचयप्रख्यं हारेणोरसि राजता । पूर्णचन्द्राभवक्त्रेण सबालार्कमिवाम्बुदम् ॥७॥ बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः। भ्राजमानाङ्गदैर्भीमैः पञ्चशीर्षैरिवोरगैः॥८॥ महति स्फाटिके चित्रे रत्नसंयोगचित्रिते । उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ॥९॥ अलङ्कृताभिरत्यर्थं प्रमदाभिः समन्ततः। वालव्यजनहस्ताभिरारात्समुपसेवितम् ॥१०॥ दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा । मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा ॥११॥ उपोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितम् । कृत्स्नं परिवृतं लोकं चतुर्भिरिव सागरैः॥१२॥ मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभदर्शिभिः। आश्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम् ॥१३॥ अपश्यद्राक्षसपतिं हनूमानतितेजसं । वेष्ठितं मेरुशिखरे सतोयमिव तोयदम् ॥१४॥ स तैः सम्पीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः। विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत ॥१५॥ भ्राजमानं ततो दृष्ट्वा हनुमान्राक्षसेश्वरम् । मनसा चिन्तयामास तेजसा तस्य मोहितः॥१६॥ अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः। अहो राक्षसराजस्य सर्वलक्षणयुक्तता ॥१७॥ यद्यधर्मो न बलवान्स्यादयं राक्षसेश्वरः। स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता ॥१८॥ अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः। सर्वे बिभ्यति खल्वस्माल्लोकाः सामरदानवाः॥१९॥ अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् । इति चिन्तां बहुविधामकरोन्मतिमान्कपिः। दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः॥२०॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनपञ्चाशः सर्गः