अथ एकपञ्चाशः सर्गः तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः। वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥१॥ अहं सुग्रीवसन्देशादिह प्राप्तस्तवान्तिके । राक्षसेश हरीशस्त्वां भ्राता कुशलमब्रवीत् ॥२॥ भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः। धर्मार्थसहितं वाक्यमिह चामुत्र च क्षमम् ॥३॥ राजा दशरथो नाम रथकुञ्जरवाजिमान् । पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः॥४॥ ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियतरः प्रभुः। पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ॥५॥ लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया । रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः॥६॥ तस्य भार्या जनस्थाने भ्रष्टा सीतेति विश्रुता । वैदेहस्य सुता राज्ञो जनकस्य महात्मनः॥७॥ मार्गमाणस्तु तां देवीं राजपुत्रः सहानुजः। ऋष्यमूकमनुप्राप्तः सुग्रीवेण च सङ्गतः॥८॥ तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् । सुग्रीवस्यापि रामेण हरिराज्यं निवेदितुम् ॥९॥ ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् । सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः॥१०॥ त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः। स तेन निहतः सङ्ख्ये शरेणैकेन वानरः॥११॥ स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः। हरीन्सम्प्रेषयामास दिशः सर्वा हरीश्वरः॥१२॥ तां हरीणां सहस्राणि शतानि नियुतानि च । दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ॥१३॥ वैनतेयसमाः केचित्केचित्तत्रानिलोपमाः। असङ्गगतयः शीघ्रा हरिवीरा महाबलाः॥१४॥ अहं तु हनुमान्नाम मारुतस्यौरसः सुतः। सीतायास्तु कृते तूर्णं शतयोजनमायतम् ॥१५॥ समुद्रं लङ्घयित्वैव त्वां दिदृक्षुरिहागतः। भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ॥१६॥ तद्भवान्दृष्टधर्मार्थस्तपः कृतपरिग्रहः। परदारान्महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ॥१७॥ नहि धर्मविरुद्धेषु बह्वपायेषु कर्मसु । मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥१८॥ कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् । शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥१९॥ न चापि त्रिषु लोकेषु राजन्विद्येत कश्चन । राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ॥२०॥ तत् त्रिकालहितं वाक्यं धर्म्यमर्थानुयायि च । मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥२१॥ दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् । उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः॥२२॥ लक्षितेयं मया सीता तथा शोकपरायणा । गृहे यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ॥२३॥ नेयं जरयितुं शक्या सासुरैरमरैरपि । विषसंस्पृष्टमत्यर्थं भुक्तमन्नमिवौजसा ॥२४॥ तपःसन्तापलब्धस्ते योऽयं धर्मपरिग्रहः। न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः॥२५॥ अवध्यतां तपोभिर्यां भवान्समनुपश्यति । आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ॥२६॥ सुग्रीवो न च देवोऽयं न यक्षो न च राक्षसः। मानुषो राघवो राजन् सुग्रीवश्च हरीश्वरः। तस्मात् प्राणपरित्राणं कथं राजन्करिष्यसि ॥२७॥ न तु धर्मोपसंहारमधर्मफलसंहितम् । तदेव फलमन्वेति धर्मश्चाधर्मनाशनः॥२८॥ प्राप्तं धर्मफलं तावद्भवता नात्र संशयः। फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ॥२९॥ जनस्थानवधं बुद्ध्वा वालिनश्च वधं तथा । रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः॥३०॥ कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् । लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः॥३१॥ रामेण हि प्रतिज्ञातं हर्यृक्षगणसंनिधौ । उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ॥३२॥ अपकुर्वन्हि रामस्य साक्षादपि पुरन्दरः। न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः॥३३॥ यां सीतेत्यभिजानासि येयं तिष्ठति ते गृहे । कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ॥३४॥ तदलं कालपाशेन सीता विग्रहरूपिणा । स्वयं स्कन्धावसक्तेन क्षेममात्मनि चिन्त्यताम् ॥३५॥ सीतायास्तेजसा दग्धां रामकोपप्रदीपिताम् । दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम् ॥३६॥ स्वानि मित्राणि मन्त्रींश्च ज्ञातीन् भात्रृन् सुतान् हितान् । भोगान्दारांश्च लङ्कां च मा विनाशमुपानय ॥३७॥ सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम । रामदासस्य दूतस्य वानरस्य विशेषतः॥३८॥ सर्वान् लोकान् सुसंहृत्य सभूतान् सचराचरान् । पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः॥३९॥ देवासुरनरेन्द्रेषु यक्षरक्षोरगेषु च । विद्याधरेषु नागेषु गन्धर्वेषु मृगेषु च ॥४०॥ सिद्धेषु किन्नरेन्द्रेषु पतत्त्रिषु च सर्वतः। सर्वत्र सर्वभूतेषु सर्वकालेषु नास्ति सः॥४१॥ यो रामं प्रतियुध्येत विष्णुतुल्यपराक्रमम् । सर्वलोकेश्वरस्येह कृत्वा विप्रियमीदृशम् । रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ॥४२॥ देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः। रामस्य लोकत्रयनायकस्य स्थातुं न शक्तास्समरेषु सर्वे ॥४३॥ ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा । इन्द्रो महेन्द्रस्सुरनायको वा स्थातुं न शक्ता युधि राघवस्य ॥४४॥ स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः। दशाननः कोपविवृत्तलोचनः समादिशत्तस्य वधं महाकपेः॥४५॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकपञ्चाशः सर्गः