अथ त्रिपञ्चाशः सर्गः तस्य तद्वचनं श्रुत्वा दशग्रीवो महात्मनः। देशकालहितं वाक्यं भ्रातुरुत्तममब्रवीत् ॥१॥ सम्यगुक्तं हि भवता दूतवध्या विगर्हिता । अवश्यं तु वधायान्यः क्रियतामस्य निग्रहः॥२॥ कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् । तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥३॥ ततः पश्यन्त्वमुं दीनमङ्गवैरूप्यकर्शितम् । सुमित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः॥४॥ आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् । लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥५॥ तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः। वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः॥६॥ संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः। शुष्कमिन्धनमासाद्य वनेष्विव हुताशनम् ॥७॥ तैलेन परिषिच्याथ तेऽग्निं तत्रोपपादयन् । लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानताडयत् ॥८॥ रोषामर्षपरीतात्मा बालसूर्यसमाननः। स भूयः सङ्गतैः क्रूरैर्राक्षसैर्हरिपुङ्गवः॥९॥ सहस्त्रीबालवृद्धाश्च जग्मुः प्रीतिं निशाचराः। निबद्धः कृतवान्वीरस्तत्कालसदृशीं मतिम् ॥१०॥ कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः। छित्त्वा पाशान्समुत्पत्य हन्यामहमिमान्पुनः॥११॥ यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात् । निबध्नन्ते दुरात्मानो न तु मे निष्कृतिः कृता ॥१२॥ सर्वेषामेव पर्याप्तो राक्षसानामहं युधि । किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ॥१३॥ लङ्का चारयितव्या मे पुनरेव भवेदिति । रात्रौ नहि सुदृष्टा मे दुर्गकर्मविधानतः॥१४॥ अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये । कामं बध्नन्तु मे भूयः पुच्छस्योद्दीपनेन च ॥१५॥ पीडां कुर्वन्ति रक्षांसि न मेऽस्ति मनसः श्रमः। ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ॥१६॥ परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् । शङ्खभेरीनिनादैश्च घोषयन्तः स्वकर्मभिः॥१७॥ राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् । अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः॥१८॥ हनुमांश्चारयामास राक्षसानां महापुरीम् । अथापश्यद्विमानानि विचित्राणि महाकपिः॥१९॥ संवृतान्भूमिभागांश्च सुविभक्तांश्च चत्वरान् । रथ्याश्च गृहसम्बाधाः कपिः शृङ्गाटकानि च ॥२०॥ तथा रथ्योपरथ्याश्च तथैव च गृहान्तरान् । चत्वरेषु चतुष्केषु राजमार्गे तथैव च ॥२१॥ घोषयन्ति कपिं सर्वे चार इत्येव राक्षसाः। स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् ॥२२॥ तं प्रदीपितलाङ्गूलं हनूमन्तं दिदृक्षवः। दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः॥२३॥ राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् । यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः॥२४॥ लाङ्गूलेन प्रदीप्तेन स एष परिणीयते । श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ॥२५॥ वैदेही शोकसन्तप्ता हुताशनमुपागमत् । मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः॥२३॥ उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् । यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः। यदि वा त्वेकपत्नीत्वं शीतो भव हनूमतः॥२७॥ यदि कश्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः। यदि वा भाग्यशेषो मे शीतो भव हनूमतः॥२८॥ यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् । स विजानाति धर्मात्मा शीतो भव हनूमतः॥२९॥ यदि मां तारयेदार्यः सुग्रीवः सत्यसङ्गरः। अस्माद्दुःखाम्बुसंरोधाच्छीतो भव हनूमतः॥३०॥ ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः। जज्वाल मृगशावाक्ष्याः शंसन्निव शुभं कपेः॥३१॥ हनूमज्जनकश्चैव पुच्छानलयुतोऽनिलः। ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः॥३२॥ दह्यमाने च लाङ्गूले चिन्तयामास वानरः। प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः॥३३॥ दृश्यते च महाज्वालः करोति च न मे रुजम् । शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः॥३४॥ अथ वा तदिदं व्यक्तं यद्दृष्टं प्लवता मया । रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ ॥३५॥ यदि तावत्समुद्रस्य मैनाकस्य च धीमतः। रामार्थं सम्भ्रमस्तादृक्किमग्निर्न करिष्यति ॥३६॥ सीतायाश्चानृशंस्येन तेजसा राघवस्य च । पितुश्च मम सख्येन न मां दहति पावकः॥३७॥ भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः। कथमस्मद्विधस्येह बन्धनं राक्षसाधमैः॥३८॥ प्रतिक्रियास्य युक्ता स्यात् सति मह्यं पराक्रमे । ततश्छित्त्वा च तान् पाशान् वेगवान् वै महाकपिः॥३९॥ उत्पपाताथ वेगेन ननाद च महाकपिः। पुरद्वारं ततः श्रीमाञ्शैलशृङ्गमिवोन्नतम् ॥४०॥ विभक्तरक्षःसम्बाधमाससादानिलात्मजः। स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ॥४१॥ ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् । विमुक्तश्चाभवच्छ्रीमान्पुनः पर्वतसंनिभः॥४२॥ वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् । स तं गृह्य महाबाहुः कालायसपरिष्कृतम् । रक्षिणस्तान्पुनः सर्वान्सूदयामास मारुतिः॥४३॥ स तान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् । प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली ॥४४॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिपञ्चाशः सर्गः