अथ पञ्चपञ्चाशः सर्गः सन्दीप्यमानां वित्रस्तां त्रस्तरक्षोगणां पुरीम् । अवेक्ष्य हानुमाँल्लङ्कां चिन्तयामास वानरः॥१॥ तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत । लङ्कां प्रदहता कर्म किंस्वित्कृतमिदं मया ॥२॥ धन्याः खलु महात्मानो ये बुद्ध्या कोपमुत्थितम् । निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥३॥ क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि । क्रुद्धः परुषया वाचा नरस्साधूनधिक्षिपेत् ॥४॥ वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित् । नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् ॥५॥ यः समुत्पतितं क्रोधं क्षमयैव निरस्यति । यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥६॥ धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम् । अचिन्तयत्वा तां सीतामग्निदं स्वामिघातकम् ॥७॥ यदि दग्धा त्वियं सर्वा नूनमार्यापि जानकी । दग्धा तेन मया भर्तुर्हतं कार्यमजानता ॥८॥ यदर्थमयमारम्भस्तत्कार्यमवसादितम् । मया हि दहता लङ्कां न सीता परिरक्षिता ॥९॥ ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः। तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः॥१०॥ विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते । लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥११॥ यदि तद्विहतं कार्यं मया प्रज्ञाविपर्ययात् । इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते ॥१२॥ किमग्नौ निपताम्यद्य आहोस्विद्वडवामुखे । शरीरमिह सत्त्वानां दद्मि सागरवासिनाम् ॥१३॥ कथं नु जीवता शक्यो मया द्रष्टुं हरीश्वरः। तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ॥१४॥ मया खलु तदेवेदं रोषदोषात्प्रदर्शितम् । प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम् ॥१५॥ धिगस्तु राजसं भावमनीशमनवस्थितम् । ईश्वरेणापि यद्रागान्मया सीता न रक्षिता ॥१६॥ विनष्टायां तु सीतायां तावुभौ विनशिष्यतः। तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ॥१७॥ एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः। धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ॥१८॥ इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम् । भविष्यन्ति प्रजाः सर्वाः शोकसन्तापपीडिताः॥१९॥ तदहं भाग्यरहितो लुप्तधर्मार्थसङ्ग्रहः। रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः॥२०॥ इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे । पूर्वमप्युपलब्धानि साक्षात्पुनरचिन्तयत् ॥२१॥ अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा । न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते ॥२२॥ नहि धर्मात्मनस्तस्य भार्याममिततेजसः। स्वचरित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः॥२३॥ नूनं रामप्रभावेण वैदेह्याः सुकृतेन च । यन्मां दहनकर्मायं नादहद्धव्यवाहनः॥२४॥ त्रयाणां भरतादीनां भ्रातॄणां देवता च या । रामस्य च मनःकान्ता सा कथं विनशिष्यति ॥२५॥ यद्वा दहनकर्मायं सर्वत्र प्रभुरव्ययः। न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति ॥२६॥ पुनश्चाचिन्तयत्तत्र हनुमान्विस्मितस्तदा । हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम् ॥२७॥ तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि । असौ विनिर्दहेदग्निं न तामग्निः प्रधक्ष्यति ॥२८॥ स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् । शुश्राव हनुमांस्तत्र चारणानां महात्मनाम् ॥२९॥ अहो खलु कृतं कर्म दुर्विगाहं हनूमता । अग्निं विसृजता तीक्ष्णं भीमं राक्षससद्मनि ॥३०॥ प्रपलायितरक्षः स्त्रीबालवृद्धसमाकुला । जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरैः ॥३१॥ दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा । जानकी न च दग्धेति विस्मयोऽद्भुत एव नः॥३२॥ इति शुश्राव हनुमान् वाचं ताममृतोपमाम् । बभूव चास्य मनसो हर्षस्तत्कालसम्भवः॥३३॥ स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः। ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः॥३४॥ ततः कपिः प्राप्तमनोरथार्थ- स्तामक्षतां राजसुतां विदित्वा । प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ॥३५॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः