अथ सप्तपञ्चाशः सर्गः आप्लुत्य च महावेगः पक्षवानिव पर्वतः। भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ॥१॥ स चन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् । तिष्यश्रवणकादम्बमभ्रशैवलशाद्वलम् ॥२॥ पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम् । ऐरावतमहाद्वीपं स्वातीहंसविलासितम् ॥३॥ वातसङ्घातजालोर्मिचन्द्रांशुशिशिराम्बुमत् । हनूमानपरिश्रान्तः पुप्लुवे गगनार्णवम् ॥४॥ ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् । हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ॥५॥ अपारमपरिश्रान्तश्चाम्बुधिं समगाहत । हनूमान्मेघजालानि विकर्षन्निव गच्छति ॥६॥ पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च । हरितारुणवर्णानि महाभ्राणि चकाशिरे ॥७॥ प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनः। प्रचन्नश्च प्रकाशश्च चन्द्रमा इव दृश्यते ॥८॥ विविधाभ्रघनापन्नगोचरो धवलाम्बरः। दृश्यादृश्यतनुर्वीरस्तथा चन्द्रायतेऽम्बरे ॥९॥ तार्क्ष्यायमाणो गगने स बभौ वायुनन्दनः। दारयन्मेघबृन्दानि निष्पतंश्च पुनः पुनः॥१०॥ नदन्नादेन महता मेघस्वनमहास्वनः। प्रवरान्राक्षसान् हत्वा नाम विश्राव्य चात्मनः॥११॥ आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् । अर्दयित्वा महावीरान् वैदेहीमभिवाद्य च ॥१२॥ आजगाम महातेजाः पुनर्मध्येन सागरम् । पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ॥१३॥ ज्यामुक्त इव नाराचो महावेगोऽभ्युपागमत् । स किञ्चिदारात् सम्प्राप्तः समालोक्य महागिरिम् ॥१४॥ महेन्द्रं मेघसङ्काशं ननाद स महाकपिः। स पूरयामास कपिर्दिशो दश समन्ततः॥१५॥ नदन्नादेन महता मेघस्वनमहास्वनः। स तं देशमनुप्राप्तः सुहृद्धर्शनलालसः॥१६॥ ननाद सुमहानादं लाङ्गूलं चाप्यकम्पयत् । तस्य नानद्यमानस्य सुपर्णाचरिते पथि ॥१७॥ फलतीवास्य घोषेण गगनं सार्कमण्डलम् । ये तु तत्रोत्तरे कूले समुद्रस्य महाबलाः॥१८॥ पूर्वं संविष्ठिताश्शूरा वायुपुत्रदिदृक्षवः। महतो वायुनुन्नस्य तोयदस्येव निःस्वनम् । शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः॥१९॥ ते दीनमनसः सर्वे शुश्रुवुः काननौकसः। वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ॥२०॥ निशम्य नदतो नादं वानरास्ते समन्ततः। बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः॥२१॥ जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः। उपामन्त्र्य हरीन्सर्वानिदं वचनमब्रवीत् ॥२२॥ सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः। न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ॥२३॥ तस्य बाहूरुवेगं च निनादं च महात्मनः। निशम्य हरयो हृष्टाः समुत्पेतुर्यतस्ततः॥२४॥ ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च । प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः॥२५॥ ते प्रीताः पादपाग्रेषु गृह्य शाखामवस्थिताः। वासांसि च प्रकाशानि समाविध्यन्त वानराः॥२६॥ गिरिगह्वरसंलीनो यथा गर्जति मारुतः। एवं जगर्ज बलवान् हनुमान्मारुतात्मजः॥२७॥ तमभ्रघनसङ्काशमापतन्तं महाकपिम् । दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ॥२८॥ ततस्तु वेगवान् वीरो गिरेर्गिरिनिभः कपिः। निपपात गिरेस्तस्य शिखरे पादपाकुले ॥२९॥ हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे । छिन्नपक्ष इवाऽकाशात्पपात धरणीधरः॥३०॥ ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः। हनूमन्तं महात्मानं परिवार्योपतस्थिरे ॥३१॥ परिवार्य च ते सर्वे परां प्रीतिमुपागताः। प्रहृष्टवदनाः सर्वे तमागतमुपागमन् ॥३२॥ उपायनानि चादाय मूलानि च फलानि च । प्रत्यर्चयन्हरिश्रेष्ठं हरयो मारुतात्मजम् ॥३३॥ विनेदुर्मुदिताः केचित् केचित् किलकिलां तथा । हृष्टाः पादपशाखाश्च आनिन्युर्वानरर्षभाः॥३४॥ हनूमांस्तु गुरून्वृद्धाञ्जाम्बवत्प्रमुखांस्तदा । कुमारमङ्गदं चैव सोऽवन्दत महाकपिः॥३५॥ स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः। दृष्टा देवीति विक्रान्तः सङ्क्षेपेण न्यवेदयत् ॥३६॥ निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् । रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ॥३७॥ हनूमानब्रवीत् पृष्टस्तदा तान्वानरर्षभान् । अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ॥३८॥ रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता । एकवेणीधरा बाला रामदर्शनलालसा ॥३९॥ उपवासपरिश्रान्ता मलिना जटिला कृशा । ततो दृष्टेति वचनं महार्थममृतोपमम् ॥४०॥ निशम्य मारुतेः सर्वे मुदिता वानरा भवन् । क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः॥४१॥ चक्रुः किलकिलामन्ये प्रतिगर्जन्ति चापरे । केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः॥४२॥ आयताञ्चितदीर्घाणि लाङ्गूलानि प्रविव्यधुः। अपरे तु हनूमन्तं श्रीमन्तं वानरोत्तमम् ॥४३॥ आप्लुत्य गिरिशृङ्गेषु संस्पृशन्ति स्म हर्षिताः। उक्तवाक्यं हनूमन्तमङ्गदस्तु तदाब्रवीत् ॥४४॥ सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम् । सत्त्वे वीर्ये न ते कश्चित्समो वानर विद्यते ॥४५॥ यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः। जीवितस्य प्रदाता नस्त्वमेको वानरोत्तम ॥४६॥ त्वत्प्रसादात् समेष्यामः सिद्धार्था राघवेण ह । अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः॥४७॥ दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी । दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीता वियोगजम् ॥४८॥ ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः। परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः॥४९॥ उपविष्टा गिरेस्तस्य शिलासु विपुलासु ते । श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः॥५०॥ दर्शनं चापि लङ्कायाः सीताया रावणस्य च । तस्थुः प्राञ्जलयः सर्वे हनूमद्वदनोन्मुखाः॥५१॥ तस्थौ तत्राङ्गदः श्रीमान्वानरैर्बहुभिर्वृतः। उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ॥५२॥ हनूमता कीर्तिमता यशस्विना तथाङ्गदेनाङ्गदनद्धबाहुना । मुदा तदाध्यासितमुन्नतं महन् महीधराग्रं ज्वलितं श्रियाभवत् ॥५३॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तपञ्चाशः सर्गः