अथ षष्टितमः सर्गः तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत । अश्विपुत्रौ महावेगौ बलवन्तौ प्लवङ्गमौ ॥१॥ पितामहवरोत्सेकात् परमं दर्पमास्थितौ । अश्विनोर्माननार्थं हि सर्वलोकपितामहः॥२॥ सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा । वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम् ॥३॥ सुराणाममृतं वीरौ पीतवन्तौ महाबलौ । एतावेव हि सङ्क्रुद्धौ सवाजिरथकुञ्जराम् ॥४॥ लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः। अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम् ॥५॥ तां लङ्कां तरसा हन्तुं रावणं च महाबलम् । किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः॥६॥ कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः। वायुसूनोर्बलेनैव दग्धा लङ्केति नः श्रुतम् ॥७॥ दृष्ट्वा देवी न चानीता इति तत्र निवेदितुम् । न युक्तमिव पश्यामि भवद्भिः ख्यातपौरुषैः॥८॥ नहि वः प्लवने कश्चिन्नापि कश्चित् पराक्रमे । तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः॥९॥ जित्वा लङ्कां सरक्षौघां हत्वा तं रावणं रणे । सीतामादाय गच्छामः सिद्धार्था हृष्टमानसाः॥१०॥ तेष्वेवं हतवीरेषु राक्षसेषु हनूमता । किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ॥११॥ रामलक्ष्मणयोर्मध्ये न्यस्याम जनकात्मजाम् । किं व्यलीकैस्तु तान् सर्वान् वानरान् वानरर्षभान् ॥१२॥ वयमेव हि गत्वा तान् हत्वा राक्षसपुङ्गवान् । राघवं द्रष्टुमर्हामः सुग्रीवं सहलक्ष्मणम् ॥१३॥ तमेवं कृतसङ्कल्पं जाम्बवान्हरिसत्तमः। उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ॥१४॥ नैषा बुद्धिर्महाबुद्धे यद् ब्रवीषि महाकपे । विचेतुं वयमाज्ञप्ता दक्षिणां दिशमुत्तमाम् ॥१५॥ नानेतुं कपिराजेन नैव रामेण धीमता । कथञ्चिन्निर्जितां सीतामस्माभिर्नाभिरोचयेत् ॥१६॥ राघवो नृपशार्दूलः कुलं व्यपदिशन् स्वकम् । प्रतिज्ञाय स्वयं राजा सीताविजयमग्रतः॥१७॥ सर्वेषां कपिमुख्यानां कथं मिथ्या करिष्यति । विफलं कर्म च कृतं भवेत् तुष्टिर्न तस्य च ॥१८॥ वृथा च दर्शितं वीर्यं भवेद् वानरपुङ्गवाः। तस्माद् गच्छाम वै सर्वे यत्र रामः सलक्ष्मणः। सुग्रीवश्च महातेजाः कार्यस्यास्य निवेदने ॥१९॥ न तावदेषा मतिरक्षमा नो यथा भवान्पश्यति राजपुत्र । यथा तु रामस्य मतिर्निविष्टा तथा भवान्पश्यतु कार्यसिद्धिम् ॥२०॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षष्टितमः सर्गः