अथ एकषष्टितमः सर्गः ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः। अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः॥१॥ प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः। महेन्द्राग्रात् समुत्पत्य पुप्लुवुः प्लवगर्षभाः॥२॥ मेरुमन्दरसङ्काशा मत्ता इव महागजाः। छादयन्त इवाकाशं महाकाया महाबलाः॥३॥ सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् । हनूमन्तं महावेगं वहन्त इव दृष्टिभिः॥४॥ राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः। समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः॥५॥ प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः। सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः॥६॥ प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः। नन्दनोपममासेदुर्वनं द्रुमशतायुतम् ॥७॥ यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् । अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ॥८॥ यद्रक्षति महावीरः सदा दधिमुखः कपिः। मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः॥९॥ ते तद्वनमुपागम्य बभूवुः परमोत्कटाः। वानरा वानरेन्द्रस्य मनःकान्तं महावनम् ॥१०॥ ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् । कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः॥११॥ ततः कुमारस्तान्वृद्धाञ्जाम्बवत्प्रमुखान्कपीन् । अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ॥१२॥ ते निसृष्टाः कुमारेण धीमता वालिसूनुना । हरयः समपद्यन्त द्रुमान् मधुकराकुलान् ॥१३॥ भक्षयन्तः सुगन्धीनि मूलानि च फलानि च । जग्मुः प्रहर्षं ते सर्वे बभूवुश्च मदोत्कटाः॥१४॥ ततश्चानुमताः सर्वे सुसंहृष्टा वनौकसः। मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः॥१५॥ गायन्ति केचित् प्रहसन्ति केचि- न्नृत्यन्ति केचित् प्रणमन्ति केचित् । पतन्ति केचित् प्रचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित् ॥१६॥ परस्परं केचिदुपाश्रयन्ति परस्परं केचिदतिब्रुवन्ति । द्रुमाद्द्रुमं केचिदभिद्रवन्ति क्षितौ नगाग्रान्निपतन्ति केचित् ॥१७॥ महीतलात्केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति । गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति ॥१८॥ तुदन्तमन्यः प्रणदन्नुपैति समाकुलं तत् कपिसैन्यमासीत् । न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव दृप्तः॥१९॥ ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् । समीक्ष्य कोपाद्दधिवक्त्रनामा निवारयामास कपिः कपींस्तान् ॥२०॥ स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवृद्धवीरः। चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः॥२१॥ उवाच कांश्चित् परुषाण्यभीत- मसक्तमन्यांश्च तलैर्जघान । समेत्य कैश्चित् कलहं चकार तथैव साम्नोपजगाम कांश्चित् ॥२२॥ स तैर्मदादप्रतिवार्यवेगै- र्बलाच्च तेन प्रतिवार्यमाणैः। प्रधर्षणे त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ॥२३॥ नखैस्तुदन्तो दशनैर्दशन्त- स्तलैश्च पादैश्च समापयन्तः। मदात्कपिं ते कपयः समन्ता- न्महावनं निर्विषयं च चक्रुः॥२४॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकषष्टितमः सर्गः