अथ द्विषष्टितमः सर्गः तानुवाच हरिश्रेष्ठो हनूमान्वानरर्षभः। अव्यग्रमनसो यूयं मधु सेवत वानराः॥१॥ अहमावर्जयिष्यामि युष्माकं परिपन्थिनः। श्रुत्वा हनूमतो वाक्यं हरीणां प्रवरोऽङ्गदः॥२॥ प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु । अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ॥३॥ अकार्यमपि कर्तव्यं किमङ्गं पुनरीदृशम् । अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः॥४॥ साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् । पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम् ॥५॥ जग्मुर्मधुवनं यत्र नदीवेग इव द्रुमम् । ते प्रविष्टा मधुवनं पालानाक्रम्य शक्तितः॥६॥ अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् । पपुः सर्वे मधु तदा रसवत्फलमाददुः॥७॥ उत्पत्य च ततः सर्वे वनपालान्समागतान् । ते ताडयन्तः शतशः सक्ता मधुवने तदा ॥८॥ मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते । पिबन्ति कपयः केचित् सङ्घशस्तत्र हृष्टवत् ॥९॥ घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे । केचित्पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः॥१०॥ मधूच्चिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः। अपरे वृक्षमूलेषु शाखा गृह्य व्यवस्थिताः॥११॥ अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते । उन्मत्तवेगाः प्लवगा मधुमत्ताश्च हृष्टवत् ॥१२॥ क्षिपन्त्यपि तथान्योन्यं स्खलन्ति च तथापरे । केचित्क्ष्वेडान्प्रकुर्वन्ति केचित्कूजन्ति हृष्टवत् ॥१३॥ हरयो मधुना मत्ताः केचित्सुप्ता महीतले । धृष्टाः केचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत् ॥१४॥ कृत्वा केचिद्वदन्त्यन्ये केचिद्बुध्यन्ति चेतरत् । येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु ॥१५॥ तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः। जानुभिश्च प्रघृष्टाश्च देवमार्गं च दर्शिताः॥१६॥ अब्रुवन्परमोद्विग्ना गत्वा दधिमुखं वचः। हनूमता दत्तवरैर्हतं मधुवनं बलात् । वयं च जानुभिर्घृष्टा देवमार्गं च दर्शिताः॥१७॥ तदा दधिमुखः क्रुद्धो वनपस्तत्र वानरः। हतं मधुवनं श्रुत्वा सान्त्वयामास तान्हरीन् ॥१८॥ एतागच्छत गच्छामो वानरानतिदर्पितान् । बलेनावारयिष्यामि प्रभुञ्जानान् मधूत्तमम् ॥१९॥ श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः। पुनर्वीरा मधुवनं तेनैव सहिता ययुः॥२०॥ मध्ये चैषां दधिमुखः सुप्रगृह्य महातरुम् । समभ्यधावन् वेगेन सर्वे ते च प्लवङ्गमाः॥२१॥ ते शिलाः पादपांश्चैव पाषाणानपि वानराः। गृहीत्वाभ्यागमन्क्रुद्धा यत्र ते कपिकुञ्जराः॥२२॥ बलान्निवारयन्तश्च आसेदुर्हरयो हरीन् । सन्दष्टौष्ठपुटाः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः॥२३॥ अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः। अभ्यधावन्त वेगेन हनूमत्प्रमुखास्तदा ॥२४॥ सवृक्षं तं महाबाहुमापतन्तं महाबलम् । वेगवन्तं विजग्राह बाहुभ्यां कुपितोऽङ्गदः॥२५॥ मदान्धो न कृपां चक्रे आर्यकोऽयं ममेति सः। अथैनं निष्पिपेषाशु वेगन वसुधातले ॥२६॥ स भग्नबाहूरुमुखो विह्वलः शोणितोक्षितः। प्रमुमोह महावीरो मुहूर्तं कपिकुञ्जरः॥२७॥ स कथञ्चिद्विमुक्तस्तैर्वानरैर्वानरर्षभः। उवाचैकान्तमागत्य स्वान् भृत्यान् समुपागतान् ॥२८॥ एतागच्छत गच्छामो भर्ता नो यत्र वानरः। सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ॥२९॥ सर्वं चैवाङ्गदे दोषं श्रावयिष्याम पार्थिवे । अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ॥३०॥ इष्टं मधुवनं ह्येतत्सुग्रीवस्य महात्मनः। पितृपैतामहं दिव्यं देवैरपि दुरासदम् ॥३१॥ स वानरानिमान्सर्वान्मधुलुब्धान्गतायुषः। घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ॥३२॥ वध्या ह्येते दुरात्मानो नृपाज्ञापरिपन्थिनः। अमर्षप्रभवो रोषः सफलो मे भविष्यति ॥३३॥ एवमुक्त्वा दधिमुखो वनपालान्महाबलः। जगाम सहसोत्पत्य वनपालैः समन्वितः॥३४॥ निमेषान्तरमात्रेण स हि प्राप्तो वनालयः। सहस्रांशुसुतो धीमान्सुग्रीवो यत्र वानरः॥३५॥ रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च । समप्रतिष्ठां जगतीमाकाशान्निपपात ह ॥३६॥ स निपत्य महावीरः सर्वैस्तैः परिवारितः। हरिर्दधिमुखः पालैः पालानां परमेश्वरः॥३७॥ स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् । सुग्रीवस्याशु तौ मूर्ध्ना चरणौ प्रत्यपीडयत् ॥३८॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विषष्टितमः सर्गः