अथ चतुःषष्टितमः सर्गः सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः। राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥१॥ स प्रणम्य च सुग्रीवं राघवौ च महाबलौ । वानरैः सहितः शूरैर्दिवमेवोत्पपात ह ॥२॥ स यथैवागतः पूर्वं तथैव त्वरितं गतः। निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह ॥३॥ स प्रविष्टो मधुवनं ददर्श हरियूथपान् । विमदानुद्धतान्सर्वान्मेहमानान्मधूदकम् ॥४॥ स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् । उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ॥५॥ सौम्य रोषो न कर्तव्यो यदेभिः परिवारणम् । अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः॥६॥ श्रान्तो दूरादनुप्राप्तो भक्षयस्व स्वकं मधु । युवराजस्त्वमीशश्च वनस्यास्य महाबला ॥७॥ मौर्ख्यात्पूर्वं कृतो रोषस्तद्भवान्क्षन्तुमर्हति । यथैव हि पिता तेऽभूत्पूर्वं हरिगणेश्वरः॥८॥ तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम । आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ॥९॥ इहोपयानं सर्वेषामेतेषां वनचारिणाम् । भवदागमनं श्रुत्वा सहैभिर्वनचारिभिः॥१०॥ प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् । प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः॥११॥ शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः। श्रुत्वा दधिमुखस्यैतद्वचनं श्लक्ष्णमङ्गदः॥१२॥ अब्रवीत्तान्हरिश्रेष्ठो वाक्यं वाक्यविशारदः। शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः॥१३॥ अयं च हर्षादाख्याति तेन जानामि हेतुना । तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः॥१४॥ पीत्वा मधु यथाकामं विक्रान्ता वनचारिणः। किं शेषं गमनं तत्र सुग्रीवो यत्र वानरः॥१५॥ सर्वे यथा मां वक्ष्यन्ति समेत्य हरिपुङ्गवाः। तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ॥१६॥ नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि । अयुक्तं कृतकर्माणो यूयं धर्षयितुं बलात् ॥१७॥ ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमुत्तमम् । प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः॥१८॥ एवं वक्ष्यति को राजन्प्रभुः सन्वानरर्षभ । ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते ॥१९॥ तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् । सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ॥२०॥ सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः। स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः॥२१॥ त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् । क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ॥२२॥ एवं तु वदतां तेषामङ्गदः प्रत्यभाषत । साधु गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः॥२३॥ उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः। कृत्वाऽऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवोपलाः॥२४॥ अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् । तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः॥२५॥ विनदन्तो महानादं घना वातेरिता यथा । अङ्गदे समनुप्राप्ते सुग्रीवो वानरेश्वरः॥२६॥ उवाच शोकसन्तप्तं रामं कमललोचनम् । समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः॥२७॥ नागन्तुमिह शक्यं तैरतीतसमयैरिह । अङ्गदस्य प्रहर्षाच्च जानामि शुभदर्शन ॥२८॥ न मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते । युवराजो महाबाहुः प्लवतामङ्गदो वरः॥२९॥ यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः। भवेत्तु दीनवदनो भ्रान्तविप्लुतमानसः॥३०॥ पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम् । न मे मधुवनं हन्याददृष्ट्वा जनकात्मजाम् ॥३१॥ कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत । दृष्टा देवी न सन्देहो न चान्येन हनूमता ॥३२॥ नह्यन्यः कर्मणो हेतुः साधनेऽस्य हनूमतः। हनूमतीह सिद्धिश्च मतिश्च मतिसत्तम ॥३३॥ व्यवसायश्च शौर्यं च श्रुतं चापि प्रतिष्ठितम् । जाम्बवान्यत्र नेता स्यादङ्गदश्च हरीश्वरः॥३४॥ हनूमांश्चाप्यधिष्ठाता न तत्र गतिरन्यथा । मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम ॥३५॥ यदा हि दर्पितोदग्नाः सङ्गताः काननौकसः। नैषामकृतकर्याणामीदृशः स्यादुपक्रमः॥३६॥ वनभङ्गेन जानामि मधूनां भक्षणेन च । ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे ॥३७॥ हनूमत्कर्मदृप्तानां नदतां काननौकसाम् । किष्किन्धामुपयातानां सिद्धिं कथयतामिव ॥३८॥ ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः। आयताञ्चितलाङ्गूलः सोऽभवद्धृष्टमानसः॥३९॥ आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः। अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ॥४०॥ तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः। निपेतुर्हरिराजस्य समीपे राघवस्य च ॥४१॥ हनूमांश्च महाबाहुः प्रणम्य शिरसा ततः। नियतामक्षतां देवीं राघवाय न्यवेदयत् ॥४२॥ दृष्टा देवीति हनुमद्वदनादमृतोपमम् । आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः॥४३॥ निश्चितार्थं ततस्तस्मिन्सुग्रीवं पवनात्मजे । लक्ष्मणः प्रीतिमान्प्रीतं बहुमानादवैक्षत ॥४४॥ प्रीत्या च परयोपेतो राघवः परवीरहा । बहुमानेन महता हनूमन्तमवैक्षत ॥४५॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुःषष्टितमः सर्गः