अथ सप्तषष्टितमः सर्गः एवमुक्तस्तु हनुमान्राघवेण महात्मना । सीताया भाषितं सर्वं न्यवेदयत राघवे ॥१॥ इदमुक्तवती देवी जानकी पुरुषर्षभ । पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ॥२॥ सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता । वायसः सहसोत्पत्य विददार स्तनान्तरम् ॥३॥ पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज । पुनश्च किल पक्षी स देव्या जनयति व्यथा ॥४॥ ततः पुनरुपागम्य विददार भृशं किल । ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः॥५॥ वायसेन च तेनैवं सततं बाध्यमानया । बोधितः किल देव्या त्वं सुखसुप्तः परन्तप ॥६॥ तां च दृष्ट्वा महाबाहो दारितां च स्तनान्तरे । आशीविष इव क्रुद्धस्ततो वाक्यं त्वमूचिवान् ॥७॥ नखाग्रैः केन ते भीरु दारितं वै स्तनान्तरम् । कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥८॥ निरीक्षमाणः सहसा वायसं समुदैक्षथाः। नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ॥९॥ सुतः किल स शक्रस्य वायसः पततां वरः। धरान्तरगतः शीघ्रं पवनस्य गतौ समः॥१०॥ ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः। वायसे त्वं व्यधाः क्रूरां मतिं मतिमतां वर ॥११॥ स दर्भसंस्तराद्गृह्य ब्रह्मास्त्रेणन्ययोजयः। स दीप्त इव कालाग्निर्जज्वालाभिमुखं खगम् ॥१२॥ स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति । ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह ॥१३॥ भीतैश्च सम्परित्यक्तः सुरैः सर्वैश्च वायसः। त्रीँल्लोकान्सम्परिक्रम्य त्रातारं नाधिगच्छति ॥१४॥ पुनरप्यागतस्तत्र त्वत्सकाशमरिन्दम । त्वं तं निपतितं भूमौ शरण्यः शरणागतम् ॥१५॥ वधार्हमपि काकुत्स्थ कृपया परिपालयः। मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ॥१६॥ भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् । राम त्वां स नमस्कृत्य राज्ञो दशरथस्य च ॥१७॥ विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम् । एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि ॥१८॥ किमर्थमस्त्रं रक्षःसु न योजयसि राघव । न दानवा न गन्धर्वा नासुरा न मरुद्गणाः॥१९॥ तव राम रणे शक्तास्तथा  प्रतिसमासितुम् । तव वीर्यवतः कच्चिन्मयि यद्यस्ति सम्भ्रमः॥२०॥ क्षिप्रं सुनिशितैर्बार्णैहन्यतां युधि रावणः। भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परन्तपः॥२१॥ स किमर्थं नरवरो न मां रक्षति राघवः। शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ॥२२॥ सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः। ममैव दुष्कृतं किञ्चिन्महदस्ति न संशयः॥२३॥ समर्थौ सहितौ यन्मां न रक्षेते परन्तपौ । वैदेह्या वचनं श्रुत्वा करुणं साधुभाषितम् ॥२४॥ पुनरप्यहमार्यां तामिदं वचनमब्रुवम् । त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ॥२५॥ रामे दुःखाभिभूते च लक्ष्मणः परितप्यते । कथञ्चिद्भवती दृष्टा न कालः परिशोचितुम् ॥२६॥ अस्मिन् मुहूर्ते दुःखानामन्तं द्रक्ष्यसि भामिनि । तावुभौ नरशार्दूलौ राजपुत्रौ परन्तपौ ॥२७॥ त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः। हत्वा च समरे रौद्रं रावणं सहबान्धवम् ॥२८॥ राघवस्त्वां वरारोहे स्वपुरीं नयिता ध्रुवम् । यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ॥२९॥ प्रीतिसञ्जननं तस्य प्रदातुं तत्त्वमर्हसि । साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् ॥३०॥ मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल । प्रतिगृह्य मणिं दोर्भ्यां तव हेतो रघुप्रिय ॥३१॥ शिरसा सम्प्रणम्यैनामहमागमने त्वरे । गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ॥३२॥ विवर्धमानं च हि मामुवाच जनकात्मजा । अश्रुपूर्णमुखी दीना बाष्पगद्गदभाषिणी ॥३३॥ ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता । मामुवाच ततः सीता सभाग्योऽसि महाकपे ॥३४॥ यद् द्रक्ष्यसि महाबाहुं रामं कमललोचनम् । लक्ष्मणं च महाबाहुं देवरं मे यशस्विनम् ॥३५॥ सीतयाप्येवमुक्तोऽहमब्रुवं मैथिलीं तथा । पृष्टमारोह मे देवि क्षिप्रं जनकनन्दिनि ॥३६॥ यावत्ते दर्शयाम्यद्य ससुग्रीवं सलक्ष्मणम् । राघवं च महाभागे भर्तारमसितेक्षणे ॥३७॥ साब्रवीन्मां ततो देवी नैष धर्मो महाकपे । यत्ते पृष्टं सिषेवेऽहं स्ववशा हरिपुङ्गव ॥३८॥ पुरा च यदहं वीर स्पृष्टा गात्रेषु रक्षसा । तत्राहं किं करिष्यामि कालेनोपनिपीडिता ॥३९॥ गच्छ त्वं कपिशार्दूल यत्र तौ नृपतेः सुतौ । इत्येवं सा समाभाष्य भूयः सन्देष्टुमास्थिता ॥४०॥ हनुमन्सिंहसङ्काशौ तावुभौ रामलक्ष्मणौ । सुग्रीवं च सहामात्यं सर्वान्ब्रूया अनामयम् ॥४१॥ यथा च स महाबाहुर्मां तारयति राघवः। अस्माद्दुःखाम्बुसंरोधात् तत् त्वमाख्यातुमर्हसि ॥४२॥ इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च । ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर ॥४३॥ एतत्तवार्या नृप संयता सा सीता वचः प्राह विषादपूर्वम् । एतच्च बुद्ध्वा गदितं यथा त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् ॥४४॥ इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तषष्टितमः सर्गः